Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
July-2002 ऽनुपपत्तेः । किञ्च विनाऽपि प्रमाणं यदि तत् तत्र स्वीक्रियते तहि सर्व सर्वत्राऽनभिव्यक्तमस्तीति अतिप्रसङ्ग एव स्यात् । न च प्रमाणमपि तत्र त्वया वक्तुं शक्यम्, अतीन्द्रियेऽर्थे ऐन्द्रियकप्रत्यक्षस्य अविषयित्वात् । अतीन्द्रियस्य च तस्याऽनुमानादेरिव प्रमाणत्वाभावात् । न च कायाकारणाऽपरिणतत्वमुपाधिzतशरीरे साध्याव्यापकत्वात् । कायाकारपरिणामस्याऽपि भूतसमदायमात्रनिबन्धनत्वेन जीवनमन्तरेण तदभावस्याऽप्यनुपपत्तेश्च । भूतानामविशेषेण घटादावपि तदभावप्रसक्तेश्च । न च विशेषको जीवः स्वीक्रियते, विवादपर्यवसानात् ।
___अथ यथा भूतानां विचित्रस्वभावतया घट-पटादीनां भूतकार्यत्वाविशेषेऽपि प्रतिव्यक्ति संस्थानविशेषो भिन्नस्तथा चैतन्यमपि इति चेत् । न । कारणसंस्थानभेदेन तत्र कार्यसंस्थानभेदोपपत्तेः । प्रलम्बपटकारणीभूतेषु तन्तुषु विषमगत्या प्रलम्बत्वस्योपलम्भात् । न च शरीरकारणत्वाभिमतभूतेषु सामान्येन विषमगत्याऽपि चैतन्यमुपलभ्यते, तत्कथमत्रैव स्यान्नाऽन्यत्र ? विनिगमकाभावेन सर्वत्र भावाभावप्रसङ्गात् ।
अपि च, भूतकार्यमपि जीवद्देवदत्तशरीरं चेतनाशून्यं नेत्यत्र किं मानम् ? । न तावत् प्रत्यक्षं, तस्य सन्निहित-सद्भूत-योग्यार्थविषयत्वेन प्रतिषेधप्रवृत्त्ययोगात् । नाऽप्यनुमानं, तथाभूतानुमानाभावात् । भूतकार्यत्वस्य चेतनाशून्यत्वेन व्याप्तेस्तदभावे भूतकार्यत्वभङ्गप्रसङ्गात् । अथाऽस्तु तथाविधाकारोऽनुमानं इति चेत् । न । तस्य चैतन्यं प्रति कारणत्वाभ्युपगमात् । न च कारणमवश्यं कार्यवद् भवति, प्रतिबन्धवैकल्यसम्भवात् । तदुक्तम्- "नाऽवश्यं कारणानि तद्वन्ति भवन्ती"ति । तत्कथं तदनुमानम् ? । नाऽपि सामग्री अनुमानं, जीवसिद्धिप्रसङ्गात्, जीवमन्तरेण तथाविधसामग्र्या एवाऽसिद्धेः।
ननु भोः कोविदकुलशिरोमणे ! जे(जी)वद्देवदत्तशरीरस्य चैतन्यशून्यत्वसिद्धावपि कथमात्मा सिद्ध्यति ? । परिशेषादिति चेत्, न, अप्रसिद्ध धर्मिणि परिशेषस्याऽयुक्तेः । न हि सामुद्रादिके चतुर्विधे नदीपूरेऽप्रसिद्ध तद्गतद्रुतभरणत्वादिषु धर्मेष्वप्रसिद्धेषु तद्दर्शनेन परिशेषानुमानं प्रवर्तते । न चाऽऽत्मनः प्रसिद्धिरस्ति इति चेत् । न ।
न ह्यात्मनो धर्मश्चैतन्यं-इति साधनाय यतामहे येन त्वदुक्तं दूषणं स्यात् । किन्तु अविगानेन प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं हि चैतन्यं नाऽपह्रोतुं शक्यं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65