Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 16
________________ 45 अनुसंधान-२० भवतु वा प्रत्येकं भूतेषु चैतन्यं, तथाऽपि कथं तदेकं स्यात् ? भिन्नभिन्नवस्तुधर्मत्वात्, भिन्नाभिप्रायपुरुषसमुदायचैतन्यवत् । भिन्नाभिप्रायतया तेषां 'अहं ददामि अहं करोमी' त्यादिरूपविशिष्टैकमानसिकानुभवनिबन्धनत्वेनाऽ-- वस्थानाभावप्रसङ्गात् । यश्च भवति सकलप्राणिप्रसिद्धः प्रत्येकं सकलैरपीन्द्रियैरूपलम्भो-'रूपं पश्यामि, मधुरमास्वादयामी'त्याद्याकारः सकलशरीराधिष्ठात्रेकरूपः कालान्तरे स्मृतिजनक: सकलेन्द्रियोपलम्भः सोऽपि चैतन्यस्य नानात्वपक्षे न स्यात् । न ह्यत्यन्तासन्नानामपि पुंसां मिथोऽपि भिन्ने चैतन्ये एकस्मिन् रूपं पश्यति अन्यस्याऽपि 'रूपमहं पश्यामी' त्याद्याकारं ज्ञानं जायमानमुपलभ्यते. न वा तत्प्रभवं कालान्तरे स्मरणमपि । अनुभूयते चेदमुभयमपि देहे स्वसंवेदनप्रत्यक्षणति न प्रतिषेधोऽप्यस्य कर्तुं शक्यो, भूतानामपि प्रतिषेधापत्तेः । तस्मान्न भूतेषु प्रत्यकं चैतन्यमिति । न च भूतसमुदाय एव चैतन्यमस्त्विति वाच्यं, प्रत्येकमसत: समुदायेऽप्यसत्त्वात् । तत्समुदाय एव परलोकगामित्वभावात् । तस्मान्न प्रत्येक भूतानां धर्मश्चैतन्यं, नाऽपि तत्समुदायस्य । न च धर्मोऽप्ययं धर्मिणमन्तरेणोपपद्यत इति धर्मिणा भवितव्यमवश्यम् । यश्चाऽस्य धर्मी स एवाऽऽत्मा। तत् सुष्टु(यू)क्तंअवग्रहादिज्ञानानां प्रत्यक्षत्वेन प्रत्यक्ष एवाऽऽत्मेति । धर्माणां धर्मिणमन्तरेणाऽनुपपद्यमानतया, भूतानां तद्धर्मित्वनिरासेनाऽऽत्मन एव तद्धर्मितया प्रत्यक्षत्वस्य प्रामाणिकत्वात्. धर्मधर्मिणोः कथञ्चिदभेदात् । ननु वस्त्वन्तरमेव चैतन्यस्य धर्मि भवतु, न पुनरात्मेति चेद्-भ्रान्तोऽसि । यदेव वस्त्वन्तरं चैतन्यस्य धर्मिभूतं तस्यैवाऽऽत्मशब्देनाऽभिधानात्, भूतातिरिक्तचैतन्यसिद्धौ नामविवादस्य निरर्थकत्वात् । केचित् तु. न प्रत्येकं भृतानां धर्मश्चैतन्यं, नाऽपि तत्समुदायस्य. किन्तु स्वतन्त्रमेव धर्मि, उत्पद्यते च तद् भृतेभ्यः. इत्याहुः । तत् 'चत्वार्येव भूतानि तत्त्वम्' इति सिद्धान्तोक्ततत्त्वसङ्ख्यानियमव्याघातकत्वादुपेक्ष्यम् । तदुक्ततत्त्वानामुपलक्षणत्वे तु नाऽऽत्मप्रतिषेधोऽपि युक्तो, प्रामाणिकत्वात् । नामान्तरेणाऽऽत्मन एव स्वीकाराच्च । भूतेभ्यश्च यथा तन्नोत्पद्यते तथा वक्ष्यते । अथ वदन्ति- मा भवतु प्रत्येकावस्थायां भृतेषु चैतन्यं, तत्साधक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65