Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
56
July-2002
योजनसहस्रप्रमाणशरीराणामपि मत्स्यादीनामल्पतरबुद्धित्वात्, तनुशरीराणामपि केषाञ्चित् श्रीवज्रस्वाम्यादीनामिव सातिशयप्रज्ञाबलशालित्वात् ।
अन्ये तु - पूर्वाकारपरित्यागाजहत्तोत्तराकारोपादानमप्युपादानलक्षणं तनोश्चैतन्यं प्रति नाऽस्त्येव, उपा]दानत्वाभिमतशरीरे प्राक्तनाकारपरित्यागाभावेऽपि प्रादुर्भवन्नानाप्रकारप्रकर्षरूपचैतन्यविकारोपलम्भादिति न चैतन्यं प्रत्युपादानभावोऽपि वपुष: सूपपाद इति । न चाऽनुपादानात् कस्यचित् कार्यस्योत्पत्तिरुपलब्धचरी, शब्दविद्युदादीनामप्युपादानत्वे तत्त्वचतुष्टयानन्तर्भावापत्तेः। देहाधिकस्योपादानस्य चाऽभ्युपगमे निःप्रत्यूहा जीवसिद्धिः, कायसहकृतादात्म-रूपोपादानात् तथाविधचैतन्यपर्यायोत्पादप्रसिद्धेः, दण्डादिसहकृता-स्मृत्पिण्डरूपोपादानाद् घटादिपर्यायोत्पादप्रसिद्धिवत् इत्याहुः ।
___ अथाऽगम्भीरादपि मृत्पिण्डादुत्पद्यते गम्भीर एव घटस्तथाऽबोधरूपादपि तथाविधभूतसमुदायादुत्पद्यतां बोधरूपं चैतन्यं; कार्यस्य सर्वथा स्वोपादानानुरूपत्वं नाऽस्त्येव, घट एव व्यभिचारात् । किन्तु कथञ्चित् स्वोपादानाननुरूपत्वमपि । इष्यते च यदि कथञ्चित् स्वोपादानानुरूपत्वमपि । अन्यथा कार्यस्य सर्वथा कारणधर्माननुगमेन कारणादत्यन्तभेदेऽसत एवोत्पत्तिरभ्युपगन्तव्या स्यात् । सा च न युक्ता, अतिप्रसङ्गात् । दृश्यते च पृथिवीत्वादिना घटेऽपि मृत्पिण्डानुरूपत्वमेवेति मन्यसे, तर्हि सत्त्व-पदार्थत्वा-दिना चैतन्यस्याऽपि तादृशभूतसमुदायानुरूपत्वमेवेति तुल्यम् । उक्तं चैतत् प्रागेवेति ब्रूषे तदप्यमनोरमम्, इह नाम कार्यं केनचिद रूपेण कारणानुरूपं केनचिच्च कारणाननुरूपं च रूपं इति सर्वसिद्ध, घटादौ तथा दर्शनात् । परं तेनैव रूपेणाऽऽनुरूप्यं अनानुरूप्यं च मार्गणीयं यद्रूपं कार्यकारणभावनियामकं भवेत् । न च सत्त्वं चैतन्यस्य भूतकार्यत्वे नियामकं, तस्य सर्वभावसाधारणत्वाद्, अन्यथा भावानामभावत्वप्रसङ्गात् । न च सकलसाधारणो धर्मः कार्यकारणभावनियामकः, मूतत्वस्य घटपटादीनां पार्थिवकार्यत्वे नियामकत्वापातात् । न चैवमेव, जलपरमाण्वादिजन्ये जलसमुदाये पार्थिवकार्यत्वप्रसङ्गात् । पार्थिवकार्यत्वे नियामकत्वेनाऽभिमतस्य मूर्त्तत्वस्य तत्राऽपि सत्त्वात् । किं तर्हि घटपटादीनां कार्यत्वे नियामकं इति चेत् ? पृथिवीत्वमित्यवैहि । तस्याऽबादिषु असत्त्वेन सर्वसाधारणत्वाभावात् । यदि च पृथिवीत्वेनेव घटपटादीनां पार्थिवपरमाण्वादिकार्यत्वे चैतन्यस्याऽपि भूतकार्यत्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65