Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 29
________________ 58 July-2002 मृतात् कालिकमृतशरीरे चैतन्योत्पादप्रसङ्गाच्च । प्राणादेरपि कायाकारनिमित्तकत्वेन भवताऽभ्युपगतत्वात् तस्य तदानीमपि सत्त्वेन जीवाभावमन्तरेण तदभावानुपपत्तेश्च । तेजोभावादेव तदभाव इति चेद, उपनीते तस्मिन् तत् कुतो न भवेत् ? । ननु गाढतरतमःसमूहाच्छादितसदने दीपलक्षणस्य तेजस एव सद्भावाद यदि प्रकाशो भवति तहङ्गारावस्थस्य तस्य सद्भावात् कुतो न भवति ? तेजोविशेषस्यैव तत्र हेतुत्वमिति यदि मन्यसे तदत्राऽपि तुल्यम् । इति चेत् । न, विशेषकमन्तरेण विशेषस्याऽनुपपत्तेः । 'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते'ति वचनात् । न हि विशेषकोऽपि त्वया तदतिरिक्तः कश्चिदभ्युपगम्यते, मया प्रदीप इव प्रत्यक्षसिद्धो ज्वालादिर्यथा, तत्त्वसङ्ख्यानियमव्याघातापातात् । ____ अस्तु स्वभावकृतं वैशिष्ट्यं, न हि स्वभावेऽपि पर्यनुयोग इति चेत् । न। स्व एव स्वभावः पर्यनुयोगान) यदा प्रमाणसिद्धः, यथा वह्नौ दाहकत्वस्वभावः । अन्यथा सर्वोऽपि वादी तत्र तत्र पर्याकुलितचेताः 'स्वभावादित्थमेवेदं न पुनरन्यथा' - इत्युत्तरं विधाय राजसदसि तव जयपताक (?) एव स्यात् । न चाऽत्र किञ्चित् प्रमाणं यत् स्वभावकृतमेव तद्वैशिष्टयं, न पुनरात्मकृतमिति । न चाऽपश्यन्त आत्मानं विप्रलभेम । किञ्चैवं तस्य तेजसोऽभावे किञ्चिदपि चैतन्यमुपलभ्येत, गुडधातक्यादीनामेकतरस्याऽभावेऽपि तदितरसमुदायेऽल्पतरमदशक्तिवत् । न हि तस्यैव त्वया चैतन्यं प्रत्युपादानकारणता स्वीक्रियते येन तदितरसाकल्येऽपि तदभावात् तदभाव एव स्यात्, मृत्पिण्डेतरसकलसद्भावेऽपि मृत्पिण्डाभावे घटाभाववत् । तथाऽभ्युपगमे वा प्रागुक्तदोषस्य दुरुद्धरतैव स्यादिति न तेजोभावादेव मृतशरीरे चैतन्याभाव इति । किं तर्हि ? चैतन्योपादानाभावादेवेति गृहाण ।। ननु मृतशरीरे चैतन्यं नोत्पद्यते वातादिदोषवैगुण्यादिति चेत् । तन्न चारु । मृतस्य दोषाना(णां) समीभावेन देहस्याऽऽरोग्यलाभात् । तथा चोक्तं___ 'तेषां समत्वमारोग्यं क्षयवृद्धी विपर्ययः' । इति । ततश्च पुनरुज्जीवनापातात् । अथ समीकरणं दोषानां(णां) कुतो ज्ञायते इति चेत् ज्वरादिविकारादर्शनादित्यवैहि । अथ निवर्तन्तां दोषाः, न हि तत्कृतं वैगुण्यमपि निवर्तते, व्यासेरभावात्; काष्ठादावग्निनिवृत्तावपि तत्कृतश्यामिकाया अनिवृत्तेः, इति चेत् । न। व्याप्तेरभावेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65