Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - २०
अथ परिणामत्वान्नाऽसौ नित्यस्तेनाऽ [सना ] तनाकारेण परिणमनस्य परिणामत्वात् न सर्वकाले भवति, सनातनत्वप्रसङ्गात्, किन्तु कदाचिदेव । यदा काले तु भवति तदा भूतेभ्योऽभिन्न एवेत्यदोष इति चेत्, न कालानभ्युपगमे एवंभूतवाक्यप्रवृत्त्ययोगात् । लोकप्रसिद्धत्वादप्रतिक्षेपार्होऽसौ काल इति चेत् न, आत्मन्यपि तस्य तुल्यत्वात् पितृकर्माऽन्यथाऽनुपपत्तेः, तस्याऽपि लोकप्रसिद्धत्वात् । तदुक्तम्
'पितृकर्मादिसिद्धेश्च हन्त नाऽऽत्माऽप्यलौकिक' इति ।
तदेवमावारकाभावादनभिव्यक्तचैतन्यानुपपत्तौ चेतनाचेतनव्यवहारस्य तद्भावाभावनिबन्धनत्वेन घटादौ चैतन्याभ्युपगमे भवत्येव चेतनाचेतनव्यवहारविलोपप्रसङ्ग इति वाच्यम् । कायाकारपरिणतभूतेभ्य एवं चैतन्योत्पत्त्यभ्युपगमेन घटादौ तत्परिणामाभावादेव चैतन्यानुत्पत्तेरुपपत्तौ चैतन्याभावाभावनिबन्धनस्य चेतनाचेतनव्यवहारस्य विलोपानुपपत्तेः ।
न चैवं मरणावस्थायामपि चैतन्यमुत्पद्येत कारणत्वाभिमतकायाकारपरिणतभूतानां तदानीमपि सत्त्वादिति वाच्यम् । कारणत्वाभिमतपवनस्य तत्राऽभावेन तथाविधभूतसत्त्वस्य तदानीमसिद्धेः । न च वस्त्यादिना तत्र प्रक्षिप्ते पवने चैतन्यमुत्पद्येत, समस्तकारणानां सत्त्वादिति वाच्यम्- प्राणापानलक्षणपवनस्यैव तद्धेतुत्वापगमेन पवनमात्रात् तदुत्पत्तेरनुत्पत्तेः ।
ननु प्राणापानलक्षणपवनाभावान्मृतकाये चैतन्याभावो न तु जीवाभावादित्यत्र किं निगमकं येन वैपरीत्यं न स्यादिति चेत् । न । लाघवस्यैव विनिंग [म] कत्वात् । मृतावस्थायां प्राणापानाभावस्य त्वयाऽप्यवश्यमङ्गीकृतत्वेन तत एव चैतन्याभावोपपत्तौ जीवाभावकल्पने गौरवात् । प्राणापानवत् जीवस्योभयसिद्धत्वाभावात् । न च यद् यस्य कार्यं तत् तदनुरूपं, यथा मृत्पिण्डस्य कार्यं घटो मृत्पिण्डानुरूप:: कार्यं च यदि भूतानां चैतन्यं तर्हि भूतानुरूपं स्यात्, न चाऽस्त्येव, तथैव अमूर्तबोधस्वरूपस्य चैतन्यस्य मूर्त्ताबोधस्वरूपैर्भूतैरनुरूपत्वाभावात् इति वाच्यम् । शृङ्गादपि शरस्योत्पत्तेर्दर्शनेन कार्यस्य स्वकारणानु - रूपत्वनियमाभावात् । न हि शरस्याऽपि शृङ्गानुरूपत्वं, प्रत्यक्षेण बाधात् । यदि च मूर्तत्वादिना रूपेण शरस्य शृङ्गानुरूपत्वमेवेति न बाधस्तर्हि सत्त्वादिना रूपेण चैतन्यस्याऽपि भूतानुरूपत्वमेवेति तुल्यम् । न च भूतानां चैतन्यादत्यन्तविलक्षणत्वात
Jain Education International
47
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65