Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 23
________________ 52 July 2002 अपि च, यद्यपि चैतन्यं प्राणापान कायाकारपरिणत भूतेभ्य उत्पद्यते तथाऽपि सहकारिकारणभूतेभ्य एव । तथा चाऽस्योपादानकारणं किञ्चिद् वाच्यं, निरुपादानस्योत्पत्तेरयोगात् । उपादानं च यदि तथाविधभूतसमुदायव्यतिरिक्तं किञ्चिद वस्तु तदा प्रागुक्तस्य 'चैतन्यं तथाविधभूतसमुदायमात्रादुत्पद्यते, तद्भाव एव भावादित्यस्य चैतन्ये भूतकार्यताप्रसाधकस्य प्रमाणस्य स्फुटमसिद्धत्वम्, तथाविधभूतसमुदायभावेऽपि तद्व्यतिरिक्तोपादानाभावे चैतन्यस्याऽभावात् । अथाऽसिद्धिपरिहारार्थं तथाविधभूतसमुदायस्यैव चैतन्यं प्रत्युपादानत्वमङ्गीकुरुषे तर्हि चैतन्यस्य भूतानुरूपता प्रसज्येत, कार्यस्य स्वोपादानकारणानुरूपत्वनियमात् । अन्यथा, कार्यकारणभावव्यवस्थानुपपत्तेः । न चेष्टापत्तिः, मूर्त्यादिविरहितयाऽनुभूयमानस्य चैतन्यस्य मूर्त्यादिमता तथाविधभूतसमुदायेन सहाऽनुरूप त्वाभावात् । अथ प्रागेवोक्तं यत् कार्यं स्वोपादनकारणानुरूपं इति नियमो नास्त्येव, शृङ्गादपि शरस्योत्पत्तेः । न हि शरोऽपि शृङ्गानुरूप इति । तदयुक्तं, शरतया परिणममानस्य शृङ्गैकदेशस्य भूतसमुदायत्वेनाऽनुभूयमानतया भूतसमुदायरूपेण शृङ्गेण सहाऽनुरूपत्वस्यैव सत्त्वात् । न हि चैतन्यमपि भूतसमुदायत्वेनाऽनुभूयते, मूर्त्यादिविरहात् । अथ मूर्त्यादिविरहितमपि चैतन्यं तथाविधभूतसमुदायोपादानकमस्तु, बाधकाभावात् इति चेत्, न तथा सति कार्यस्य कारणधर्माननुगमेन कारणादत्यन्तभेदेऽत्यन्तासत एव तस्योत्पत्तिरभ्युपगता स्यात् । अस्त्वेवमिति चेत्, असत्त्वाविशेषात् पञ्चमभूतस्याऽप्युत्पत्तिरभ्युपगन्तव्या स्यात् । एवमप्यस्तु इति चेत्, असदुपादानकत्वेन कूर्मरोमभ्यो जायमानाया इव रज्जोरसत्त्वमेव तस्य स्यात् । असत्त्वमप्यस्तु इति चेत्, न स्वसंवेदनप्रत्यक्षेणाऽनुभूयमानस्य चैतन्यस्य प्रतिषेद्धुमशक्यत्वात्, शक्यत्वे वा भूतानामपि प्रतिषेधप्राप्तौ शून्यवादस्यैवाऽसमञ्जसत्वापातात् । न च शून्यतैवाऽस्तु तत्त्वं प्रतिज्ञाभङ्गप्रसङ्गात् । चार्वाकमत सवत् तन्मतस्याऽपि जैनैर्ध्वसयितुं शक्यत्वात् । तन्नाऽस्त्येव बाधकाभाव इति कथं मूर्त्यादिविरहेऽपि चैतन्यं तथाविधभूतोपादानकं स्यात् ? । अथ भूतकार्यत्वेऽपि यथा घटपटादीनां वैचित्र्यं स्वभावकृतं दृष्टं तथा चैतन्यस्याऽपि अन्यकार्येभ्योऽत्यन्तवैलक्षण्यं स्वभावकृतं स्यात् तदा को दोष: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65