Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
48
July-2002
कथं तेभ्यस्तदुत्पत्तिरिति वाच्यम् । लोके भिन्नजातीयादपि कारणाद् भिन्नजातीयस्य कार्यस्य दर्शनात् । न चाऽसिद्धिः, सूक्ष्माप्रदेशपरमाणुभ्यः स्थूलसप्रदेशघटादेस्त्वयाऽप्युत्पत्तेरङ्गीकारात् । तत् सुनिष्पन्नमेतद् यद् प्राणापानविशिष्टकायाकारभूतसमुदायाच्चैतन्यमुत्पद्यते, तदपगमे च विनश्यति । तथा च सुष्ठुक्तम् .. "नाऽस्त्येव परलोकगाम्यात्मा, ज्ञानक्रियाभ्यां मोक्षः कस्य भविष्यति ? इति व्यर्थं एव तपःप्रभृति कष्टानुष्ठानम्" इति । एवं च
द्राक्षामद्यादिकं पेयं भक्ष्यं मांसादिकं भृशम् । जनन्यादिस्त्रियो भोज्या रूपवत्यो यदा रुचिः ॥१॥ कायध्वंसावसाने हि चैतन्ये कस्य पातकम् ? परलोकोऽपि कस्य स्याद् यद्भयात् तद् विवय॑ते ।२।।
इत्येवंरूपानुसारेण प्रवृत्तिर्विधेया, चैतन्यस्य भूतकार्यतया परलोकगामिनो जीवस्याऽभावात् । न च भूतकार्यत्वं चैतन्यस्याऽप्रामाणिकं. चैतन्यं कायपरिणामापत्रभूतकार्य, तद्भाव एव भावात् । यद् यद्भाव एव भवति तत् तत्कार्यं, मदशक्तेः सुरापरिणामापन्नमद्याङ्गकार्यत्ववत् । इति प्रमाणस्य सत्त्वात् ।
अत्र वदन्ति - चैतन्यस्य भूतकार्यत्वे किं प्रमाणम् ? न तावत् प्रत्यक्षं, अतीन्द्रियविषये तस्याऽभावात् । नहि उत्पन्नमनुत्पन्नं वा चैतन्यं भूतानां कार्यं इति व्यापारे प्रत्यक्षमुपैति, तस्य स्वयोग्यसंनिहितार्थग्रहणरूपत्वात्, चैतन्यस्य चाऽमूर्तत्वेन तदयोग्यत्वात् । न च भूतानामहं कार्यमित्येवमात्मविषयं भूतकार्यत्वं प्रत्यक्षमवगन्तुमलं, कार्यकारणभावस्याऽन्वयव्यतिरेकसमधिगम्यत्वात् । व्यतिरेकनिश्चयनिबन्धनस्य चाऽनुपलम्भस्य तत्राऽभावात् । न च तदुभयातिरिक्तः कश्चिदन्वयो तदुभयान्वयव्यतिरेकज्ञाताऽभ्युपगम्यते, आत्मसिद्धिप्रसङ्गात् । नाऽप्यन्यत् प्रमाणं, तस्याऽनभ्युपगमात् । प्रत्यक्षमेवैकं प्रमाणं, नाऽन्यदिति वचनात् । अभ्युपगमेऽपि ततो विवक्षितार्थप्रतीत्यसिद्धेः । अधिकृत-चैतन्यवस्तुनोऽतथारूपत्वात् ।
तथाहि-यदि चैतन्यं भूतसमुदायमात्रनिमित्तकं स्यात् तहि घटादावपि स्यात्, निमित्ताविशेषात् । कायाकारपरिणाम एव निमित्तविशेषस्तदभावादेव न चैतन्यं घटादौ । तदुक्तम्- 'कायाकारप्राणापानपरिग्रहवद्भ्यो भृतेभ्यश्चैतन्यं नाऽविशिष्टेभ्यः' इति, अतो न दोष इति चेत्, न । आत्माभाववादिमते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65