Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ 40 July-2002 मृदादेरेवोपादानात्, तदेतदात्मन्यपि तुल्यं; सर्वैरपि वादिभिः शरीरस्य जडत्वेन तदतिरिक्तेनैव चेतनेन दर्शनस्मरणप्रत्यभिज्ञानालोचनादिकरणात् । नन्वहंप्रत्ययो नाऽऽत्मविषयोऽहंप्रत्ययत्वात्, स्थूलोऽहमिति प्रत्ययवदिति चेत् न; विपक्षबाधकाभावेनाऽप्रयोजकत्वात् । सहचारदर्शनमेव विपक्षबाधकमिति चेत्, न; दूरस्थमङ्गारभृतं पात्रं धूमवत्, वह्निमत्त्वादित्यस्याऽपि प्रयोजकत्वपातात्, महानसादौ धूमध्वज-धूमयोः सहचारदर्शनात्; अनुमानप्रामाण्याङ्गीकारेऽपसिद्धान्ताच्च । ननु सुहृद्भावेन पृच्छामि-स्थूलोऽहं कृशोऽहमिति योऽहंप्रत्यय: स नाऽऽत्मविषयोऽहं सुखी अहं दुःखीति प्रत्ययस्तु आत्मविषयः, इत्यत्र किं नियामकम् ? इति चेत् न । उभयस्याऽप्यस्याऽऽत्मविषयकत्वात्; अन्तर्मुखावभासितया प्रवृत्तत्वेन ! किन्तु 'स्थूलोऽहं' इत्यादिरूपस्य भ्रमत्वम्, अस्थूल एवाऽऽत्मनि स्थूलत्वग्रहणरूपत्वात् । अतत्प्रकारे तत्प्रकारकज्ञानस्यैव भ्रमल्वात् । 'अहं सुखी' ति ज्ञानस्य तु प्रमात्वं, सुखिन्येव सुखग्रहणस्वरूपत्वात् । तद्वति तदन्याप्रकारकज्ञानस्यैव च प्रमात्वात् । नहि तस्येवाऽस्याऽपि भ्रमत्वमेव, रक्तजपाकुसुमसंसर्गाद् रक्तः स्फुटिक इति ज्ञानस्येव कठिनः स्फुटिक इत्यस्याऽपि भ्रमत्वप्रसङ्गात् । अथ भवति रक्तः स्फुटिक इति प्रत्ययस्य भ्रमत्वं, जपाकुसुमसंसर्गाभावे शुक्ल: स्फुटिक इति बाधकज्ञानदर्शनात् । न तु कठिनः स्फुटिक इत्यस्याऽपि, द्रवत्वाधिकरणं स्फुटिक इति विपरीतप्रत्ययस्य जातुचिदप्यदर्शनात् इति चेत् । तहि कुतो न भवति स्थूलोऽहमिति प्रत्ययस्य भ्रमत्वम् ? अहं सुखीति प्रत्ययस्य चाऽभ्रमत्वम् ? मोहापगमे विवेकाकलिते मनसि 'स्थूलोऽहं नाऽस्मि, किन्तु शरीरं मे स्थूलं' इति भेदप्रत्ययस्य बाधकस्याऽत्राऽपि दर्शनात्: 'नाऽहं सुखी, किन्तु शरीरं मे सुखि' इत्यस्य च कदाचिदप्यदर्शनात् । वस्तुतस्तु स्थूलोऽहं इत्यादिप्रत्ययस्याऽपि भेदं तिरस्कुर्वत एवोत्पद्यमानस्य भ्रमत्वं, स्थूलशरीरवानहमित्येवं शरीरोपाधिकतया जायमानस्य तु आत्मालम्बनतयाऽपि सत्यत्वमेव । दृश्यते चाऽभेदतिरस्कारेणाऽपि तज्जायमानं, यथा स्थूलं कृशं वा मम शरीरमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65