________________
8
जैनन्यायपञ्चाशती दृष्टान्त से ज्ञान के स्वप्रकाशकत्व को दो कारिकाओं से सिद्ध करते हुए कह रहे हैं
न हि दीपोपलम्भे स्यात् दीपान्तरगवेषणम्। किन्तु प्रकाशयेद्दीप आत्मनात्मानमेव यत्॥५॥
तथैव तस्य विज्ञाने सापेक्षं न चिदन्तरम्। स्वं च निजात्मना यहि प्रकाशयितुमीश्वरम्॥६॥
... ... ॥युग्मम्॥ दीप को देखने के लिए किसी दूसरे दीपक की गवेषणा नहीं की जाती, किन्तु दीप स्वयं को अपने आप प्रकाशित करता है।
वैसे ही ज्ञान के लिए किसी दूसरे ज्ञान की अपेक्षा नहीं होती। वह अपने स्वरूप से ही स्वयं को प्रकाशित करने में समर्थ है। ... न्यायप्रकाशिका
दीपस्योपलम्भे-प्राप्तौ-ज्ञप्तौ वा दीपान्तरस्य अन्यो दीपो दीपान्तरस्तस्य गवेषणं नैव भवति, किन्तु दीप आत्मना एव स्वयमेव आत्मानं प्रकाशयति, लोकलोचनगोचरतां नयति।दीपः प्रकाशात्मा-प्रकाशस्वरूप आत्मानं प्रकाशयन् पदार्थानपि प्रकाशयति। यः स्वयं प्रकाशमानो न भवेत् स कथं परान् प्रकाशयिष्यति।एवञ्च स्वप्रकाशकत्वे सति परप्रकाशकत्वं स्वप्रकाशस्य लक्षणं यथा दीपे संघटते तथैव ज्ञानेऽपि संघटते।ज्ञप्ति-निमिति भावव्युत्पत्त्या निष्पन्नो ज्ञानशब्दोऽस्ति हि प्रकाशापरपर्यायः। ज्ञानं बोधः प्रकाशश्चेत्यादयः शब्दाः सन्ति पर्यायवाचकाः। तच्च ज्ञानं चैतन्यस्वरूपम्। चेतनत्वात् प्रकाशकत्वाच्च ज्ञानं स्वं प्रकाशयितुं चिदन्तरं-ज्ञानान्तरं नापेक्षते कथमपि।अपेक्षतामपि कथम्? यत् खलु स्वयं प्रकाशात्मकं स्वयं प्रकाशमानं परप्रकाशनक्षमं तत्कथं भवेत् परमुखापेक्षी प्रकाशयितुमात्मानम्। दीपस्य प्रकाशः सीमितकालिकः ज्ञानस्य प्रकाशस्तु सार्वकालिकः। अस्यां स्थितौ यदि किञ्चित् कालिकप्रकाशको दीपः स्वयं प्रकाशमानः परापेक्षां न कुरुते आत्मानं प्रकाशयितुं तदा सार्वकालिकप्रकाशकं ज्ञानं कथमपेक्षतां प्रकाशयितुमात्मानं किमपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org