Book Title: Jain Nyaya Panchashati
Author(s): Vishwanath Mishra, Rajendramuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 79
________________ 62 जैनन्यायपञ्चाशती बुलबुले के रूप में जल का उत्पाद और विनाश प्रत्यक्ष देखा जा रहा है। वह बुलबुला उत्पाद के समय भी जल है, विनाश के समय भी जल है और जल रूप में स्थित भी है। इससे वस्तु त्रयात्मक (उत्पाद, व्यय और ध्रौव्यात्मक) सिद्ध होती है। न्यायप्रकाशिका पदार्थस्य लक्षणमस्ति सत्। अस्तीति सत्' इति व्युत्पत्त्या अस्तित्ववान् पदार्थ एव सत्। विश्वस्मिन् जगति यावन्तोऽस्तित्ववन्तः पदार्थास्ते सर्वे सत्पदवाच्याः सन्ति। अनया रीत्या सत्, पदार्थः, वस्तु इमे शब्दाः समानार्थकाः सन्ति। अस्मिन् सत्पदार्थे जागतिकसमस्तजडचेतनपदार्थानां समावेशो भवति। अतः सदिति महत्त्वपूर्ण तत्त्वम्। अतोऽस्य किं लक्षणमिति विचारणीयमस्ति। नेदं चित्रं यदत्र विषये विवदन्ते दार्शनिकाः। तत्र केचन वदन्ति 'यत् सत् तत् क्षणिकम्'। क्षणिकमेव सत्। अर्थक्रियाकारित्वमेव सत्। तच्च नित्यपदार्थे न भवितुमर्हति। एकान्तनित्येन आकाशादिना कस्याऽपि अर्थक्रियाया अदर्शनात्। तस्मान्न नित्यं वस्तु सत्, किन्तु क्षणिकमेव सत्। ____ अपरे वदन्ति यत्-क्षणिकपदार्थो यः क्षणमपि स्थातुं न शक्नोति स खलु अर्थक्रियां कथं करिष्यति? तस्मात् सत् न क्षणिकमनित्यम्, किन्तु नित्यं तत्त्वमेव सदिति वदन्ति परे। नापि नित्यमेव तत्। एकान्तनित्यस्यापि अर्थक्रियाकारित्वमसिद्वमेव आकाशवत्। अस्मिन् विषये जैनदर्शनं पदार्थं परिवर्तनशीलं तथा नित्यं (स्थायिनं) मनुते। गणधरेण भगवान् पृष्टः किं सत्? तदा भगवता तीर्थंकरेण महावीरेण एवमुत्तरितम् 'उप्पनेइ वा विगमेइ वा धुवेइ वा'। उमास्वातिनाचार्येणापि एतदेव प्रतिपादितम्-'उत्पादव्ययधौव्ययुक्तं सत्'। अस्योदाहरणमिदमस्ति'घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् -यदा मौलिर्निर्मीयते तदा घटस्य १. 'यत् सत् तत् क्षणिकं, यथा जलधरः'। सर्वदर्शनसंग्रहः पृ. २६ । २. विशेषावश्यक गाथा ५४७। मलयगिरिकृत आवश्यकसूत्रवृत्तिः, पृ. ४८ । ३. तत्त्वार्थसूत्रम्, ५/२९।। ४. आप्तमीमांसा, श्लो. ५९। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130