________________
28
जैनन्यायपञ्चाशती (१४) . चक्षुर्मनसोरुपघातोऽनुग्रहश्च नेति प्रस्तूयतेचक्षु और मन का उपघात और अनुग्रह नहीं होता, इसी बात को प्रस्तुत कर रहे हैं. उपघातोऽनुग्रहश्च नानयोरपराक्षवत्। ..
ततस्तत्प्राप्यकारित्वं साध्यते केन धीमता? १४॥ अपने-अपने विषय का सान्निध्य होने पर जैसे दूसरी इन्द्रियों का उपघात और अनुग्रह होता है वैसे चक्षु और मन का उपघात और अनुग्रह नहीं होता, इसलिए उनका प्राप्यकारित्व कौन बुद्विमान् सिद्ध कर सकता है? न्यायप्रकाशिका
• चतुर्णा स्पर्शनादीन्द्रियाणाम् उपघातोऽनुग्रहश्च भवति न तुमनःचक्षुषोः। किमत्र कारणमिति जिज्ञासायामुच्यते-स्व-स्व-विषयं प्राप्तवतामेव स्पर्शनादीनां भवति उपघातोऽनुग्रहश्च । मनःचक्षुषी न तादृशेऽतोऽत्र न तथा। ___ कोऽयमुपघातः कश्चानुग्रह इति प्रश्ने ध्यातव्यमिदम् यत् उपघातः प्रतिकूलानुभूतिः अनुग्रहश्चाऽनुकूलानुभूतिः। अयमुपघातोऽनुग्रहश्च चक्षुर्मनो विहाय केवलं चतुर्णामेवेन्द्रियाणां भवति। अस्य कारणञ्चेदमस्ति यत् इमानि स्पर्शन-रसन-घ्राण-श्रोत्रेन्द्रियाण्येव विषयं प्राप्य प्रकाशकारीणि भवन्ति। चक्षुर्मनश्च विषयमप्राप्यैव तस्य प्रकाशनं कुरुतः। यदाऽनयोर्विषयसम्पर्क एव न जातस्तदा उपघातस्य अनुग्रहस्य चचैव कथं स्यात्?
कीदृश उपघातः कीदृशश्चानुग्रह इति चेदिदमवगन्तव्यं यत् स्पर्शनेन्द्रियस्य तु कर्कशपदार्थस्पर्शेन किं वा तीक्ष्णतृणादिसंसर्गेण वा या उद्वेजकता भवति सा एवात्र उपघातः। एतद्प्रतिकूलन्तु सुखस्पर्श-प्रयोजकपुष्पादिसमवधाने सति या सुखानुभूतिर्भवति सा एवानुकूलताऽत्र अनुग्रहरूपेण ग्राह्या।
रसनेन्द्रियस्योपघातस्तत्र भवति यत्र तिक्तकटुकषायादिपदार्थः पेयो लेह्यो भोज्यो वा भवेत्। तत्र तु केवलं तिक्तादिरसस्यैवानुभूतिर्भवति। एतद्विपरीतं सुमधुरपेयाधुपलब्धौ तु अनुभूयतेऽनुकूलता। इयमनुकूलतैवात्रानुग्रहः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org