Book Title: Jain Nyaya Panchashati
Author(s): Vishwanath Mishra, Rajendramuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 62
________________ जैनन्यायपञ्चाशती इदमिदानीं विचार्यते यत् शब्दादर्थबोधः कथं भवतीति। स च शब्दः सहजसामर्थ्यसमयाभ्यामर्थं प्रत्याययति। सहजसामर्थ्य शब्दस्यार्थप्रतिपादनशक्तिः योग्यतानाम्नी', समयश्च संकेतः। ___ इदमत्र बोध्यं यत् शब्देऽर्थबोधिका शक्तिस्तिष्ठति। यस्मिन् शब्दे यदर्थबोधिका शक्तिस्तिष्ठति तस्मात् शब्दात् तदर्थस्यैव बोधो जायते। अत एव सर्वेभ्यः शब्देभ्यो न सर्वेषामर्थानां बोधः। यदर्थबोधिका शक्तिर्यस्मिन् शब्दे गृहीता तस्मिन् शब्दे श्रुतिपथमागते सति तदर्थस्यैवबोधो गृहीतशक्तिकस्यैव पुरुषस्य भवति, नान्यस्य जनस्य। येन पुरुषेणार्थबोधि का शक्तिर्न गृहीता अथवा गृहीताऽपि शक्तिर्यदि विस्मृता स्यात् तदापि न बोधः। इयं शब्दस्य अर्थबोधिका शक्तिः सहजा अस्ति। अनया शक्त्या शब्दोऽर्थं तथैव बोधयति यथा इन्द्रियाणि स्वस्वविषयान् बोधयन्ति। योग्यता इव संकेतोऽपि भवति अर्थबोधोपयोगी।अस्मात् पदादयमर्थो बोधव्यः इत्येव संकेतपरम्परा । वस्तुतस्तु संकेत एव शब्दशक्तिं ग्राहयित्वा अर्थ बोधयतीति सारः। स च संकेतो व्याकरणोपमानकोशाप्तवाक्यादिभिरवगन्तव्यः । कारिकाकारेण परोक्षज्ञानस्य मतिः श्रुतञ्चेति भेदद्वयं प्रतिपादितम्। तत्र मतिज्ञानस्य स्मृतिः, प्रत्यभिज्ञा, तर्कः, अनुमानञ्चेति चत्वारो भेदाः सन्ति। श्रुतज्ञानस्य चैक एव भेद आगमः। आगमः पौद्गलिकः शब्दात्मकः अर्थबोधहेतुरिति वदन्ति विज्ञाः । १. इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा। अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा॥ -वैयाकरणभूषणम् शक्तिप्रकरणम श्लोक ३७ २. यथा सहकारपदात् आम्रवृक्षो बोधव्य इति संकेतः। ३. १. एतद्विषये भिक्षुन्यायकर्णिकाऽवलोकनीया-चतुर्थो विभागः, सू. ५। ४. शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति,सान्निध्यतः सिद्धपदस्य वृद्धाः॥' - -न्यायसिद्धान्तमुक्तावली, शब्दखण्डः, पृ. २९६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130