________________
जैनन्यायपञ्चाशती
इदमिदानीं विचार्यते यत् शब्दादर्थबोधः कथं भवतीति। स च शब्दः सहजसामर्थ्यसमयाभ्यामर्थं प्रत्याययति। सहजसामर्थ्य शब्दस्यार्थप्रतिपादनशक्तिः योग्यतानाम्नी', समयश्च संकेतः। ___ इदमत्र बोध्यं यत् शब्देऽर्थबोधिका शक्तिस्तिष्ठति। यस्मिन् शब्दे यदर्थबोधिका शक्तिस्तिष्ठति तस्मात् शब्दात् तदर्थस्यैव बोधो जायते। अत एव सर्वेभ्यः शब्देभ्यो न सर्वेषामर्थानां बोधः। यदर्थबोधिका शक्तिर्यस्मिन् शब्दे गृहीता तस्मिन् शब्दे श्रुतिपथमागते सति तदर्थस्यैवबोधो गृहीतशक्तिकस्यैव पुरुषस्य भवति, नान्यस्य जनस्य। येन पुरुषेणार्थबोधि का शक्तिर्न गृहीता अथवा गृहीताऽपि शक्तिर्यदि विस्मृता स्यात् तदापि न बोधः। इयं शब्दस्य अर्थबोधिका शक्तिः सहजा अस्ति। अनया शक्त्या शब्दोऽर्थं तथैव बोधयति यथा इन्द्रियाणि स्वस्वविषयान् बोधयन्ति। योग्यता इव संकेतोऽपि भवति अर्थबोधोपयोगी।अस्मात् पदादयमर्थो बोधव्यः इत्येव संकेतपरम्परा । वस्तुतस्तु संकेत एव शब्दशक्तिं ग्राहयित्वा अर्थ बोधयतीति सारः। स च संकेतो व्याकरणोपमानकोशाप्तवाक्यादिभिरवगन्तव्यः ।
कारिकाकारेण परोक्षज्ञानस्य मतिः श्रुतञ्चेति भेदद्वयं प्रतिपादितम्। तत्र मतिज्ञानस्य स्मृतिः, प्रत्यभिज्ञा, तर्कः, अनुमानञ्चेति चत्वारो भेदाः सन्ति। श्रुतज्ञानस्य चैक एव भेद आगमः।
आगमः पौद्गलिकः शब्दात्मकः अर्थबोधहेतुरिति वदन्ति विज्ञाः ।
१. इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा। अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा॥
-वैयाकरणभूषणम्
शक्तिप्रकरणम श्लोक ३७ २. यथा सहकारपदात् आम्रवृक्षो बोधव्य इति संकेतः। ३. १. एतद्विषये भिक्षुन्यायकर्णिकाऽवलोकनीया-चतुर्थो विभागः, सू. ५। ४. शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति,सान्निध्यतः सिद्धपदस्य वृद्धाः॥'
- -न्यायसिद्धान्तमुक्तावली, शब्दखण्डः, पृ. २९६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org