________________
44
जैनन्यायपञ्चाशती
इति प्रत्यभिज्ञा, ततः पर्वतो वह्निमान् इत्यनुमितिरिति क्रमः पूर्वकारणसापेक्षत्वस्येति ज्ञेयः ।
• आगमः - इदानीम् आगमस्य विषये विचारः क्रियते । 'आसमन्ताद् गम्यते बोध्यते-ज्ञायते आत्मतत्त्वं येना- सावागम इति' तस्य व्युत्पत्तिलभ्योऽर्थः । आगमो हि परोक्षप्रमाणस्यापरो भेदः । 'आप्त' वचनात् जातं श्रुतज्ञानमागम:' इति तदीयः प्रसिद्धोऽपरार्थः । न च यदि वचनात् जातं ज्ञानमागमश्चेत् आप्तवचने आगमशब्दस्य प्रयोगः कथं स्यादिति चेद् इदमत्र बोध्यम्-यत् आप्तवचने यः खलु आगमशब्दस्य प्रयोगः स तु औपचारिकोऽस्ति । तात्पर्यमिदं यत् आप्तवचनात् जायमाने श्रुतज्ञाने यद् आगमत्वं वर्तते तत् तदीये कारणे आप्तवचने समारोप्य आप्तवचनमपि आगमशब्देनोच्यते । अर्थात् आप्तवचनं कारणमस्ति श्रुतज्ञानं च तदीयं कार्यमस्ति । उपचाराद् कार्यधर्मं कारणे आरोप्य आप्तवचनमपि आगमः कथ्यते । अयमेवात्रोपचारः ।
1
आगमो हि श्रुतज्ञानम्। तच्च श्रुतज्ञानं द्विविधमस्ति - द्रव्यश्रुतं भावश्रुतञ्च । तत्र वर्णपदवाक्यात्मकं वचनं पौद्गलिकत्वात् द्रव्यश्रुतम् । इदं द्रव्यश्रुतमेव अर्थज्ञानस्य भावश्रुतस्य साधनं भवति ।
श्रुतज्ञानं यत् शब्दात्मकं भवति तस्य एक एव भेदो भवति आगमः । स चागमः सप्तभङ्गीनयान्वितो भवति । तात्पर्यमिदं यत् सप्तभङ्गीनयश्चेत्येतद् द्वयमागमप्रमाणात् व्यतिरिक्तं नास्ति । आगमप्रमाण एव अनयोरपि गणना कर्तव्येति भावः ।
१. भिक्षुन्यायकर्णिकायां तु आचार्यतुलसीमहाभागेन अनुमानप्रसंगे साध्यस्य व्याख्या एवं कृतास्ति'सिसाधयिषितं साध्यम् ।' व्याप्तौ धर्म एव, यथा - यत्र यत्र धूमस्तत्र तत्र वह्निः । अनुमित तु साध्यधर्मविशिष्ट धर्मी, यथा- ' -'अग्निमान् पर्वतः ' । धर्मी एव पक्षः । पक्षवचनं प्रतिज्ञा । अत्र धर्मपदेन अग्नेः तथा धर्मिपदेन पर्वतस्य ग्रहणं कृतं वर्तते ।
२. (क) आप्तस्तु यथार्थवक्ता । तर्कसंग्रहः, शब्दपरिच्छेदः, पृ. ६२ ।
(ख) रागादिवशादपि नान्यथा वादी यः स आप्तः ।
३. भिक्षुन्यायकर्णिका, चतुर्थी विभागः, सू. २ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org