________________
43
जैनन्यायपञ्चाशती
पूर्वतत्पदेन व्याप्यस्य ग्रहणं तथा द्वितीयतत्पदेन व्यापकस्य ग्रहणं कर्त्तव्यम्। अर्थात् व्याप्यसत्त्वे व्यापकसत्त्वम्। धूमसत्त्वे वह्ने : सत्त्वमेवान्वयः। व्याप्ये धूमे सति व्यापको वह्निरस्त्येव।
व्यतिरेकश्च तदभावे तदभाव रूपः। अत्र प्रथमतत्-शब्देन व्यापकस्य ग्रहणं कर्तव्यम् द्वितीयेन तत्शब्देन व्याप्यस्य ग्रहणं च। व्यापकाऽभावे व्याप्याऽभावो भवत्येव।अयमत्र सारः अन्वये साधनं धूमो व्याप्यो भवति साध्यो वह्निश्च व्यापको भवति। व्यतिरेके तु साध्याभावो व्याप्यः साधनाभावश्च व्यापको भवति। साध्याभावे वह्नयभावे साधनाभावो धूमाभावो भवत्येव। तर्कस्य लक्षणमवलम्ब्य यदा विचारः क्रियते तदा स्पष्टं भवति यत् तर्कस्य कृते पूर्वानुभवस्य स्मरणस्य तथा प्रत्यभिज्ञायाश्चेति त्रयाणामपेक्षा भवति। सा चेत्थम्-धूमे वह्नेर्व्याप्तिगृहीतो ज़नो यदा पर्वते धूमं पश्यति तदा तस्य इदमनुभवात्मकं प्रथमं ज्ञानं भवति-'धूमवानऽयं पर्वतः'। ततो धूमो वह्निव्याप्य इति व्याप्तिस्मरणं भवति, ततो सोऽयं धूमो यो वह्निव्याप्तियुत इति प्रत्यभिज्ञा भवति। अनया रीत्या तर्कः पूर्वानुभवस्मरणप्रत्यभिज्ञासापेक्ष इति सिद्ध्यति। • अनुमानम्-चतुर्थं परोक्षप्रमाणमस्ति-अनुमा अर्थात् अनुमानम्। अनेन
प्रमाणेन पक्षे साध्यमनुमीयते। साध्यमनुमातुम् एको हेतुरपेक्ष्यते। स च हेतु साध्यस्याऽविनाभावी भवेत्। अविनाभावी हेतुरसावेव भवति यस्य साध्येन सह अन्वयव्याप्तिः व्यतिरेकव्याप्तिश्चेति व्याप्तिद्वयं संभवेत्। एतत्सन्दर्भ धूम एव वहिव्याप्तिविशिष्टो हेतुरुपलभ्यते। येन पुरुषेण महानसादौ धूमे वह्निव्याप्तिर्गृहीता स एव पुरुषः कदाचित् वनं गतः। तत्र च पर्वते अविच्छिन्नमूलां धूमलेखां पश्यति। इदं तस्य प्रथमं ज्ञानं 'पर्वतो धूमवान्' इति। ततोऽसौ धूमे गृहीतां व्याप्तिं स्मरति। स एवायं धूमो यो वह्निव्याप्तिविशिष्टोऽस्ति। ततो वहेरनुमितिः। तच्चेदं प्रमाणमपि पूर्वकारणसापेक्षमस्ति-यथा पूर्वं पर्वते धूमदर्शनम्, ततो धूमो वह्निव्याप्य इति व्याप्तिस्मरणम्, ततो वह्निव्याप्यः सोऽयं धूम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org