________________
42
जैनन्यायपञ्चाशती साम्प्रतं इदं विचार्यते यत् स्मृतौ प्रत्यभिज्ञायां च को भेदः इति जिज्ञासायामिदमवधारणीयं यत्स्मृतौ विषयो न भवति, किन्तु केवलं स्मर्यतेऽसौ। प्रत्यभिज्ञायां तु विषयः पुरतस्तिष्ठति तदीयं स्मरणं च भवति। अतो ज्ञानमिदं प्रत्यक्षात्मकं स्मरणात्मकं चास्ति।
प्रत्यभिज्ञायाः पूर्वकारणसापेक्षत्वं कथं भवतीति जिज्ञासा। अस्याः समाधानमिदमस्ति यत् स्मरणप्रत्यक्षयोर्मेलनेन जायमानायां प्रत्यभिज्ञायां यत् स्मरणात्मकमित्यंशो वर्तते स तु पूर्वदृष्टस्य अनुभूतस्य वा भवति। अस्माद् हेतोः प्रत्यभिज्ञा पूर्वकारणसापेक्षा भवतीत्यवगन्तव्यम्।
अत्रेयं भवति शङ्का यत् यत्र न तत्शब्दप्रयोगः न वा इदंशब्दप्रयोगः न वा अनुभवस्मरणयोरेव प्रतीतिस्तत्र 'गोसदृशो गवयः' इत्यादौ कथं संकलनात्मिका प्रत्यभिज्ञेति? अत्रोच्यते-न केवलं स्मरणप्रत्यक्षयोरेकत्र मेलने एव प्रत्यभिज्ञा, किन्तु यत्र अनेकं ज्ञानं सम्मिल्य एकतामाधत्ते तत्राऽपि संकलनात्मकं ज्ञानमेव। प्रस्तुतोदाहरणे गवयस्य प्रत्यक्षं तथा सादृश्यप्रतियोगित्वेन गोः स्मरणं च भवत्येवेति अत्रापि प्रत्यक्षस्मरणयोर्मेलनं वर्तत एव।
यत्रापि गोविलक्षणो महिष इत्युच्यते तत्र यद्यपि तत्शब्दस्य इदंशब्दस्य च प्रयोगो नास्ति तथापि ज्ञानद्वयस्य सम्मेलनम् अत्रापि वर्तते एव। तच्चेत्थम्अत्र या महिषविलक्षणतोक्ता तस्याः प्रतियोगी गौरस्ति, अनुयोगी च महिषो वर्तते।अत्रानुयोगिनो महिषस्य प्रत्यक्ष तथा प्रतियोगिनो गोः स्मरणं च भवत्येव। अनया रीत्या अन्येष्वपि उदाहरणेषु प्रत्यभिज्ञा साधनीया। • तर्कः-इदं तृतीयं परोक्षज्ञानम्। इदमपि ज्ञानं पूर्वकारण-सापेक्षं भवति।
एतस्य लक्षणमेवं कृतं वर्तते यत् 'अन्वय-व्यतिरेकनिर्णयस्तर्कः'।' तत्र कोऽन्वयः कश्च व्यतिरेकः इति जिज्ञासायामिदमवगन्तव्यं यत् 'तत्सत्त्वे तत्सत्वमन्वयः'। 'तदभावे तदभावो व्यतिरेकः'। अन्वये
१.भिक्षुन्यायकर्णिका, द्वितीयो विभागः, सू.७। २. भिक्षुन्यायकर्णिकायां मूले इदमस्ति-'साधने सति साध्यस्य, साध्ये एव वा साधनस्य भावः अन्वयः। साध्याभावे साधनाभावः व्यतिरेकः।' अस्य मूलपाठस्य व्याख्यानमुपरि वर्तते।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org