________________
जैनन्यायपञ्चाशती
41
प्रत्यभिज्ञायाः समीचीनमुदाहरणम् । अत्रेदमपि वक्तुं शक्यते - प्रत्यभिज्ञालक्षणं तत्पदयुक्तं तथा इदंपदयुक्तं च भवति ।
आचार्यहेमचन्द्रेणाऽपि तथ्यमिदं एवं प्रति - पादितम् -' दर्शनस्मरणसंभवं तदेवेदं, तत्सदृशं तद्विलक्षणं, तत्प्रतियोगीत्यादिसंकलनं प्रत्यभिज्ञानम्' ।' भिक्षुन्यायकर्णिकायामपि एतत्समानार्थकमेव प्रत्यभिज्ञालक्षणमुपलभ्यते - 'अनुभवस्मृतिसंभवं तदेवेदं, तत्सदृशं, तद्विलक्षणं, तत्प्रतियोगीत्यादिसंकलनं प्रत्यभिज्ञा' । तात्पर्यमिदं यत् प्रत्यभिज्ञा संकलनात्मकं ज्ञानमस्ति ।
,
आचार्यहेमचन्द्रेण तथा भिक्षुन्यायकर्णिकाकारेण आचार्यतुलसीगणिनाऽपि इदं संकलनात्मकं तथ्यमवलम्ब्य प्रत्यभिज्ञाया लक्षणं एवं कृतं यत् दर्शनात् स्मरणाच्च मिलित्वा जायमानं इदं तदेवेदं तत्सदृशमेवेदं तद्विलक्षणमिदं इदं तत्प्रतियोगि इत्येवंरूपेण यत्संकलनं भवति सा एव प्रत्यभिज्ञा । अत्र दर्शनपदेन अथवा अनुभवपदेन च ज्ञानस्य प्रत्यक्षता व्यक्ता भवति तथा स्मृतिपदेन ज्ञानस्य पूर्वकालिकता व्यक्ता भवति । अस्या उदाहरणानि एवं बोध्यानि, यथा
• दर्शनस्मरणसंभवम् अथवा अनुभवस्मृतिसंभवं च तदेवेदम् -'सोऽयं भिक्षुः ।' अत्र 'अयम्' इति पदेन भिक्षोः प्रत्यक्षं ज्ञानं भवति । तथा 'स' इति पदेन पूर्वदृष्टस्य भिक्षोः स्मरणं भवति । अनया रीत्या इदमेकं संकलनात्मकं ज्ञानमस्ति ।
• तत्सदृशम् तत्प्रतियोगि वा - 'गोः सदृशो गवयः' इत्यत्र गवयस्य प्रत्यक्षं तथा सादृश्यप्रतियोगितया गोः स्मरणं च भवतीति तत्सदृशतत्प्रतियोगिनोरुदाहरणम् ।
• तद्विलक्षणम् - 'गोविलक्षणो महिषः' इत्युक्ते सति गो-प्रतियोगिकविलक्षणतायाः अनुयोगी महिषो भवति । अत्र महिषस्य प्रत्यक्षात्मकं ज्ञानं तथा तन्निष्ठवैलक्षण्यज्ञानं तु पूर्वतो निर्धारितं स्मरणात्मकं चेति ।
अतः प्रत्यभिज्ञा संकलनात्मकज्ञानरूपा भवतीति कथनं सार्थकमेव ।
१. प्रमाणमीमांसा, १/२/४ |
२. भिक्षुन्यायकर्णिका, तृतीयो विभागः, सू. ६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org