________________
40
जैनन्यायपञ्चाशती एवमेव व्याजहार यत्-'वासनोबोधहेतुका तदित्याकारा स्मृतिः'। वासनासंस्कारस्तस्योद्बोधः-प्रबोधः, स एव हेतुर्यस्याः सा एव स्मृतिरिति। एतत्समानार्थकमेव स्मृतेर्लक्षणं न्यायदर्शनेऽप्युपलभ्यते। तत्रोक्तम्'संस्कारमात्रजन्यं ज्ञानं स्मृतिः' । अस्मिन् लक्षणे यदि मात्रपदं न स्यात् तदा संस्कारजन्यं ज्ञानं स्मृतिरित्येव लक्षणं स्यात्। तच्चेदं लक्षणं प्रत्यभिज्ञायामपि गच्छेदित्यतिव्याप्तिः स्यात्, प्रत्यभिज्ञाया अपि संस्कारजन्यत्वात्। अत्रोऽत्र लक्षणे मात्रपदनिवेश आवश्यक एव। एवं प्रकारैः विविधलक्षणैरिदं ज्ञायतेऽत्र यत्स्मृतिः संस्कारजन्या भवति। • प्रत्यभिज्ञा-साम्प्रतं स्मृतेरनन्तरं प्रत्यभिज्ञायाः पूर्वकारण-सापेक्षत्वं
कथमिति विचार्यते। एकविंशतिकारिकायां लिखितमस्ति यत् 'तदिदं पुनः अपेक्षते प्रत्यभिज्ञा'। अस्येदं तात्पर्यं यत् प्रत्यभिज्ञायां तत्शब्दः इदंशब्दश्चेति द्वयमपेक्षते।अत एव प्रत्यभिज्ञाया लक्षणमेवं वक्तुं शक्यते यत्'तत्ता-इदन्तावगाहिनी बुद्धिः प्रत्यभिज्ञा' । अत्र तत्तापदेन तत्शब्दस्य इदन्तापदेन इदंशब्दस्य च ग्रहणं भवति। यस्मिन् ज्ञाने अनयोः शब्दयोः प्रयोगो भवति तदेव ज्ञानं प्रत्यभिज्ञा। उदाहरणार्थं यथा-'सोऽयम् देवदत्तः', 'तदेवेदं नगरम्' इति प्रयोगौ स्तः प्रत्यभिज्ञायाम्।स्पष्टमिदम्देवदत्त-नामकः कश्चन पुरुषः कदाचित् जयपुरनगरे दृष्टः। स एव यदि वर्तमाने जोधपुरनगर्यां दृष्टिपथे आयाति तत्रोच्यते सोऽयं देवदत्तः'। अत्र 'स' इति तत्शब्दस्य रूपम्। 'अयम्' इति च इदंशब्दस्य रूपम्। अत्र 'स' इति पदेन पूर्वदृष्टस्य देवदत्तस्य स्मरणं भवति, अयम्' इति पदेन च असौ प्रत्यक्षो भवति। अत एव 'सोऽयं देवदत्तः' इति ज्ञानम् 'तत्ता इदन्तावगाहि' वर्तते। एकेन 'स' इति पदेन तस्य स्मरणं तथा 'अयम्' इति पदेन तस्य प्रत्यक्षञ्च भवतीति 'तत्ता इदन्तावगाहि' ज्ञानं
१. प्रमाणमीमांसा, १/२/३। २. तर्कसंग्रहः, पृ. २१, केदारनाथत्रिपाठीकृता व्याख्या। ३. लक्षणमिदं व्याख्याकारस्य, पं. विश्वनाथमिश्र।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org