________________
जैनन्यायपञ्चाशती
39
मतिज्ञान के चार भेद हैं- स्मरण, प्रत्यभिज्ञा, तर्क और अनुमान । श्रुतज्ञान का एक भेद है - आगम। वह सप्तभंगी और नय से युक्त है।
न्यायप्रकाशिका
परोक्षप्रमाणस्य पञ्च भेदा भवन्ति । ते च सन्तीमे स्मृतिः, प्रत्यभिज्ञा, तर्कः, अनुमानम्, आगमश्च । एषु पूर्वकारणस्य अपेक्षा भवति । अस्याः अपेक्षायाः क्रम एषु एवं भवति
-
स्मृतिः - सा अनुभवजन्या भवति । पूर्वं कस्यापि वस्तुनोऽनुभवात्मकं ज्ञानं भवति । तत्पश्चात् तत्सदृशवस्तु-दर्शने पूर्वानुभूतस्य स्मृतिर्भवति - 'तत् सुदिनम्', 'तन्मे मनः' इत्यादिरूपेण । स्मृतौ तत्शब्दस्योल्लेखो भवति । अनेन स्पष्टं भवति यत् स्मृतौ न कोऽपि नूतनविषय आयाति प्रत्युत पूर्वदृष्टः श्रुतो वा स्मर्यते एव केवलम् । न भवत्यत्र विषयः सम्मुखः, किन्तु केवलं तस्य स्मरणमेव भवति । पूर्वदृष्टस्य श्रुतस्य वा स्मरणजननात् स्मृतेरेवं लक्षणं श्रूयते -'अनुभवजन्यं ज्ञानं स्मृतिः ' । एवमेव भिक्षुन्यायकर्णिकायामपि स्मृतेरिदं लक्षणम् उपलभ्यते'संस्कारोद्बोधसंभवा तदित्याकारा स्मृति:' । '
अस्यायमभिप्रायो यत् पूर्वं केचन विषया ज्ञाताः सन्तोऽस्माकं संस्कारे अवस्थिता भवन्ति । यदा कथञ्चित् अस्माकं संस्कारस्योद्बोधनं भवति तदा तत्र अवस्थिता विषया अस्माकं ज्ञानविषयतामायान्ति, अर्थात् स्मृता भवन्ति । एतेनेदं स्पष्टं भवति यत् स्मृतौ न कश्चन नूतनो विषयो ज्ञायतेऽपितु ज्ञातविषया एव स्मर्यन्ते । ज्ञानञ्चेदं स्मरणात्मकमेव न तु अनुभवात्मकम् । अत एव प्रस्तुतकारिकायां यल्लिखितं वर्तते यत् 'प्राक्तनानुभवापेक्षं स्मरणम्' तत् समीचीनमेव । स्मरणं पूर्वं जातेन अनुभवेनैव भवति । अतोऽत्राऽपेक्षा भवति प्राक्तनानुभवस्य ।
एतदेव तथ्यं वादिदेवसूरिणाऽपि व्यलेखि - 'संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणमिति' ।' आचार्यहेमचन्द्रोऽपि स्मृतेर्विषये
१. भिक्षुन्यायकर्णिका, तृतीयो विभागः, सूत्रम् ५।
२. प्रमाणनयतत्त्वालोकः, ३ / २५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org