Book Title: Jain Nyaya Panchashati
Author(s): Vishwanath Mishra, Rajendramuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 58
________________ जैनन्यायपञ्चाशती 41 प्रत्यभिज्ञायाः समीचीनमुदाहरणम् । अत्रेदमपि वक्तुं शक्यते - प्रत्यभिज्ञालक्षणं तत्पदयुक्तं तथा इदंपदयुक्तं च भवति । आचार्यहेमचन्द्रेणाऽपि तथ्यमिदं एवं प्रति - पादितम् -' दर्शनस्मरणसंभवं तदेवेदं, तत्सदृशं तद्विलक्षणं, तत्प्रतियोगीत्यादिसंकलनं प्रत्यभिज्ञानम्' ।' भिक्षुन्यायकर्णिकायामपि एतत्समानार्थकमेव प्रत्यभिज्ञालक्षणमुपलभ्यते - 'अनुभवस्मृतिसंभवं तदेवेदं, तत्सदृशं, तद्विलक्षणं, तत्प्रतियोगीत्यादिसंकलनं प्रत्यभिज्ञा' । तात्पर्यमिदं यत् प्रत्यभिज्ञा संकलनात्मकं ज्ञानमस्ति । , आचार्यहेमचन्द्रेण तथा भिक्षुन्यायकर्णिकाकारेण आचार्यतुलसीगणिनाऽपि इदं संकलनात्मकं तथ्यमवलम्ब्य प्रत्यभिज्ञाया लक्षणं एवं कृतं यत् दर्शनात् स्मरणाच्च मिलित्वा जायमानं इदं तदेवेदं तत्सदृशमेवेदं तद्विलक्षणमिदं इदं तत्प्रतियोगि इत्येवंरूपेण यत्संकलनं भवति सा एव प्रत्यभिज्ञा । अत्र दर्शनपदेन अथवा अनुभवपदेन च ज्ञानस्य प्रत्यक्षता व्यक्ता भवति तथा स्मृतिपदेन ज्ञानस्य पूर्वकालिकता व्यक्ता भवति । अस्या उदाहरणानि एवं बोध्यानि, यथा • दर्शनस्मरणसंभवम् अथवा अनुभवस्मृतिसंभवं च तदेवेदम् -'सोऽयं भिक्षुः ।' अत्र 'अयम्' इति पदेन भिक्षोः प्रत्यक्षं ज्ञानं भवति । तथा 'स' इति पदेन पूर्वदृष्टस्य भिक्षोः स्मरणं भवति । अनया रीत्या इदमेकं संकलनात्मकं ज्ञानमस्ति । • तत्सदृशम् तत्प्रतियोगि वा - 'गोः सदृशो गवयः' इत्यत्र गवयस्य प्रत्यक्षं तथा सादृश्यप्रतियोगितया गोः स्मरणं च भवतीति तत्सदृशतत्प्रतियोगिनोरुदाहरणम् । • तद्विलक्षणम् - 'गोविलक्षणो महिषः' इत्युक्ते सति गो-प्रतियोगिकविलक्षणतायाः अनुयोगी महिषो भवति । अत्र महिषस्य प्रत्यक्षात्मकं ज्ञानं तथा तन्निष्ठवैलक्षण्यज्ञानं तु पूर्वतो निर्धारितं स्मरणात्मकं चेति । अतः प्रत्यभिज्ञा संकलनात्मकज्ञानरूपा भवतीति कथनं सार्थकमेव । १. प्रमाणमीमांसा, १/२/४ | २. भिक्षुन्यायकर्णिका, तृतीयो विभागः, सू. ६ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130