Book Title: Historical Inscriptions Of Gujarat Part 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पर्वतना लेखो नं. १
२९ मंत्रिणां बुद्धिधाम्नां । चक्रेऽभ्यासः स खलु विधिना नूनमेनं विधातुं तेजःपाल: कथमितरथाधिक्यमाष तेषु || ४८ अस्ति स्वस्तिनिकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृतामुबतिले पालयन् । आत्मीयं ब
३० हु मन्यते न हि गुणग्रामं च कामंदाकश्चाणक्योपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्यं ॥ ४९ इतश्व || महं श्रीतेजःपालस्य पत्न्याः श्रीअनुपमदेव्याः पितृवंशवर्णनं ॥ प्राग्वाटान्त्रय मंडनैकमुकुटं श्रीसांद्र चंद्रावती वास्तव्यः स्त
३१ वनीयकीर्त्तिलहरिप्रक्षालितक्ष्मातलः । श्रीगागाभिधयासुधीरजनि यद्वृत्तानुरागादभूत्को नाप्तप्रमदो नदोलितशिरा नोद्भूतरामा पुमान् ॥ ५० अनुसृतसज्जनसरणिर्धरणि. गनामा बभूव तत्तनयः । स्वप्रभुहृदये ।
३२ गुणिना हारेणेव स्थितं येन ॥ ५१ त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशीलसंपना । दयिताऽभूदनयोः पुनरंगं द्वेधामनस्त्वेकं ॥ ५२ अनुपमदेवी देवी साक्षादाक्षायणीव शीलेन । तद्दुहिता सहिता श्रीतेजःपालेन
३३ पत्पाऽभूत् ॥ ५३ इयमनुपमदेवी दिव्यवृत्तप्रसूनव्रततिरजनि तेजःपालमंत्रीशपली । नयविनयविवेकी चित्यदाक्षिण्यदानप्रमुख गुणगणैदुद्योतिताशेष गोत्रा ॥ ५४ लावण्यसिंहस्तनयस्तयोरयं रयं जयन्निं ।
३४ [] यदुष्टवाजिनां । लब्धापि मीनध्वजमंगलं वयः प्रयाति धम्मैक विधायिना - ध्वना ॥ १५ श्रीतेजः पालतनयस्य गुणानमुष्यश्री लूगसिंह कृतिनः कति न स्तुवंति । श्रीबंधनोद्धुरतरैरपि यैः समंतादुद्दामता । त्रिजगति क्रि
३५ यते स्मकीर्तेः ॥ १६ गुणधननिधानकलशः प्रकटोऽयमवेष्टितश्च खलसप्पैः । उपचयमयते सततं सुजनैरुपजीव्यमानोऽपि ।। ५७ मल्लदेवंसचिवस्य नंदनः पूर्णसिंह इति लीलुकासुतः । तस्य नंदति सुतोयमहणा
३६ देविभूः सुकृतवेश्म पेथडः || २८ अभूदनुपमा पत्नी तेजःपालस्य मंत्रिणः । लावण्यसिंहनामायमायुष्मानेतयोः सुतः ॥ १९ तेजः पालेन पुण्यार्थं तयोः पुत्रकलत्रयोः । हर्म्यं श्रीनेमिनाथस्य तेने तेनेदमर्बुदे ।
३७ ॥ ६० तेजः पाल इति क्षितीदुसचिवः शंखोज्वलोभिः शिला श्रेणीभिः स्फुरदि दुकुंदरुचिरं नेमिप्रभोर्मंदिरं । उच्चैर्मंडपमग्रतो जिन[ वरा ]वासद्विपंचाशतं तत्पाबाकं च पुरतो निष्पादयामासिवान् ॥ ६१ श्रीमच्चंड
३८ []संभवः [ समभवच्चंड प्रसादस्ततः सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूणिगमल्ल देवसचिव श्री वस्तुपालाह्वयास्तेजः पालसमन्विता जिनमतारामोन्नमन्नीरदाः॥ ६२ श्रीमंत्रीश्वरवस्तुपालतनयः श्रीजै
1 वाया शंखीज्ज्वलाभिः २वा वला नक
. ८५
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१२७
Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397