Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 13
________________ पद्मसुन्दरविरचितं निस्तरङ्गनिजरङ्गसङ्गमस्वादुमेदुरमुदारसम्पदम् । निर्विकारमनुचिभ्रदुत्तमं विस्फुरद्विमलकेवलं महः ॥२३।। सहजसुधारसलहरीक्षीराम्बुधिमध्यमग्नलावण्यः । निर्भरपरमानन्दो जिनेन्द्र चन्द्रः सदा जयति ॥२४॥ युग्मम् ॥ ज्ञेयानन्त्योपदर्शि प्रतिनियतयथावस्थितार्थस्वभावज्ञानानन्तत्ववाच्यं निजसहजरसज्ञानमुज्जम्भतेऽस्य । ज्ञानं तु ज्ञेयनिष्ठं दहन इह यथा दाह्यनिष्ठस्तथेति ज्ञानाविच्छिन्नरूपं समगुणगुणितं द्रव्यमुच्चैश्चकास्ति ॥२५।। ज्ञानाद्यद्यतिरिच्यते घटपटस्थानीयतामागतो हीनत्वेन विवृण्वतः स्वसमवेतत्वाद्यभावादचित् । तजानाति कथं स्वरूपपररूपत्वव्यवस्थापनामित्थं ज्ञानसमान एव परमात्माऽयं समुज्जम्भते ॥२६॥ ज्ञेयाकारविवेचनक्षममिति ज्ञानं ततस्तन्मयोभूय स्वव्यपदेशभाग् भवगतः सर्वज्ञताऽऽचक्ष्यते । सर्वे तद्विषयाः स्वतत्त्वमपरित्यज्यापरेऽर्थाः स्वतश्चिद्रूपात्मतया चकास्ति सहजाद्वैतावलम्बी पुमान् ॥२७॥ आत्मा ज्ञानमतो निराश्रयवशादज्ञानतापद्यते ज्ञानं चापि स चेदनात्मकतया तस्याप्यसिद्धिध्रुवम् । इत्थं तन्निरुपाध्यनादिनिधनानन्यत्वसम्बन्धमागेकोऽनेकतया गुणी तदविनाभृतोऽभिसम्भाव्यताम् ॥२८॥ चक्षू रूपमसंस्पृशन्न पतितं दृश्यं तदप्यात्मसास्कुर्वन्नित्ययमप्यतीन्द्रियपरश्चिच्छक्त्यभिव्यक्तिभिः । अस्पृष्टोऽप्यनवस्थितः कवलयन्नानिवानन्दताकल्लोलाकुलकेलिखेलनविधौ जागर्ति कौतूहली ।।२९।। तदुग्धाध्युषिताभिभूय विलसन्नीलेन्द्रनोलद्युतिः स्वसंवेदनमात्मसाद्विरचयन्नन्यानभिव्याप्य सः ।। २५ = तदी १.२३ । २६ = प्रसा १.२४-२५, तदी १. २४-२५ । २८ = प्रसा १.२७, तदी १.२७ । २९ = तदी १.२९ । ३० = प्रसा १.३०, तदी १.३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68