Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
पञ्चमोऽङ्कः । निष्क्रान्तश्चिद्विलासः अथ शब्दन्नहाविशेषविलासः प्रविशति ।
कथञ्चिद् द्रव्येषु प्रतिचरितसामान्यविशदप्रबोधादुद्भूतस्तदितरगुणस्तत्प्रगुणितः । विशेषप्राग्भारः समवतरदुच्छिद्य परतामिहैकत्वव्यक्तिर्निजगुणनिरुक्ति निगमयन् ॥१॥ सर्वैकत्वनिबन्धनं विचरते द्रव्यत्वसामान्यता जीवाजीवतया विवेचितशा भेदो न वा भिद्यते । तभेदश्चिदचिवयस्य च भिथः स्याच्चेतनाचेतनव्यक्तीकारपरायणोऽभ्युदयते सोढा विशेषः परान् ॥२॥ धर्माधर्माकाशकालाणुरूपिद्रव्ये पञ्च व्यक्तयः सन्ति भिन्नाः । एका जीवव्यक्तिरत्यन्तभिन्ना संविन्मात्रा चेतनद्योतमाना ॥३॥ भिन्नाभिन्नाभावभावव्यपाया नो भियन्ते जातु जातेरभेदात् । शुद्धः शुद्धस्वस्वरूपप्रकाशव्यासक्तोऽयं चेतनापुण्यपुञ्जः ॥४॥ उत्पादस्थितिभङ्गभेदरचना जोवे तथा पुद्गले सङ्घातादथ भेदतो द्वयमिदं भावक्रियावत् तथा । शेषाणां परिणाममात्रभवनाद् भावः परिस्पन्दनाकारस्फारतरक्रिया प्रकृतितो द्रव्यास्तिताया बलात् ॥५॥ मूर्ता निजपरिस्पन्दभिन्नाः सङ्घातसंहताः । भेदेनोत्पद्यमानादिक्रियावन्तो भवन्ति यत् ॥६॥ जीवा निजपरिस्पन्दनवकर्मादिपुद्गलैः । भिन्नाः सङ्घातमापन्नाः क्रियावन्तस्त्रिधा मताः ॥७॥ लिङ्गानीह गुणास्तदाश्रयतया यैर्लिङ्गयते गम्यते द्रव्यं तन्न गुणा गुणास्तदपि नो द्रव्यादतद्भाविनः । लिङ्गत्वं खलु लिङ्गलिङ्गिविवृतौ संसिद्धयति स्वेच्छया
जीवाजीवतदाश्रया ननु गुणा यैय॑ज्यते द्रव्यता ।।८।। १ = तदी २. ३५ (उत्थानिका) । २-४ तदी २.३५ । ५-७-प्रसा २.३०, तदी २.३७ । ८प्रसा २.३८, तदी. २.३८ ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org
Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68