Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
पद्मसुन्दरविरचितं सदृष्टेः खलु मङ्गलाय मरणं प्राक्कर्मणः शातनात् यद् गत्यन्तरसङ्क्रमेण पुरतो वेद्यं तदत्रैव हि । तस्मान्मे परमात्मनः परतरा संशुद्धिरस्तु स्वयं । न स्यादामघटस्य किं हुतभुजः पाकोऽर्थसंसिद्धये ॥१२४॥ अथ कथं कथमप्यवतारिते सहजभूमिमितः परमात्मनि । पुनरनेकनयाङ्कितलक्षणं किमपि तस्य मनागपि चिन्त्यते ॥१२५।। दिव्यज्ञानानन्दकन्दायमानं शुद्धात्मानं चिच्चमत्कारमात्रम् । पश्यन्त्यन्तज्योतिरुद्गच्छदच्छं ध्याता ध्येय वस्तु वस्तुस्वरूपम् ॥१२६॥ चैतन्यसामान्यनिमग्नधर्माधिष्ठातृकं द्रव्यमनन्तशक्ति । प्रमाणपूर्वानुभवप्रमीयमाणं स्वसंवेघरहस्यगम्यम् ॥१२७॥ यवेकान्तनयावलम्बनपरज्ञानेन वस्तुस्थितिः प्रस्तूयेत तदा न वस्तु परतो भिन्नं परिच्छिद्यते । स्याद्वादेन पुनः प्रमाणयति यः स्वां वस्तुवृत्ति स्वतो ज्ञानीभूय न मुह्यति स्वपरतो भेदादतः स्तूयते ॥१२८॥ चिन्मानं पटमात्रवत् तदखिलं द्रव्यार्थिकन्यायतः पर्यायार्थनयेन तन्तुमितिवद् दृग्ज्ञानमात्रं स्फुरत् । स्यादस्तित्वनयादयोमयधनुर्ध्यावर्तिलक्ष्योन्मुखस्वस्थाजिह्मगवद्यदस्ति निजद्रव्यादिसम्पत्तितः ॥१२९॥ स्यान्नास्तित्वनयादनायसधनुर्ध्यावर्त्यलक्षोन्मुखास्वस्थाजिह्मगवन्न चास्ति परतो द्रव्यादिभिर्नास्तिवत् । तद्वद् द्वैतनयक्रमान्निजपरद्रव्यादिभिर्दै तवत् तत्त्वावाच्यनयेन पूर्वशरवद् वाच्यं न चैकक्षणम् ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68