Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
.. 'पद्मसुन्दरविरचितं आसंसारनिपीतमोहमदिराघूर्मायमाणश्चिति क्षुभ्यन्नभ्युदयत्यनात्मकबहिर्द्रव्यस्फुरद्व्यक्तिषु । ' रागद्वेषबहिर्मुखस्य नियतं शुद्धात्मसंचेतनावाप्तिस्तस्य दवीयसी किमपरैर्व्यर्थालकोलाहलैः ॥१५६॥ घेदुश्चण्डितकर्मकाण्डविगमोच्चण्डीकृताखण्डितज्ञानाडम्बरकाण्डकेन परतां वध्यैकभूमि नयत् । तद्विज्ञानधनाविभिन्नमहिमव्यक्तीकृतान्तर्लसत् कल्लोलाब्धिरिव स्वभावभवने तिष्ठेत निर्याकुलः ॥१५७॥ अन्तमुखः समवरुद्धसमस्तमोहद्रोहः समेत्य पदवीमपदाधिरूढाम् । अच्छोच्छलबहुलपुष्कलरङ्गसङ्ग- . रङ्गत्तरङ्गमकराकरवन्ममज्ज ॥१५८॥ कुतश्चिदनुमानतः स्फुरति मेचकव्यक्तितां प्रमाणभवनात् कुतो भवदमेचकत्वं ततः । . द्वयानुभवतः कचिल्लसति मेचकामेचक न किञ्चिदपि किञ्चिदुच्चकचकायमानं महः ॥१५९॥ जयति जयपताकीकृत्य नित्यावबोधं स्वरसविसरमज्जच्चिच्चमत्कारसारम् । अनुभवभवभावाभावभावप्रवृत्तो जगदजगदिवान्तर्यस्य नश्यत्यवश्यम् ॥१६॥ यः पाण्डित्यशिखण्डिपण्डितशिखाशेषे शिखण्डायते यो विज्ञानघनाघनाध्वनि तडिद्दण्डायते विस्फुरन् । उत्क्रामन्नय चक्रसाधनविधौ यश्चक्रवर्ती विभुः व्याख्यातुं स किल प्रगल्भकुशलः श्रीज्ञानचन्द्रोदयम् ॥१६१॥ ब्रह्मज्ञानकलाविलासविलसद्ब्रह्मैकलीनतालीनं दुर्धरधारया न सहते द्वैतं चिदञ्चत्विषा । ब्रह्म ब्रह्मणि मग्नमित्थमधुना गम्भीरबोधाम्बुधौ शब्दब्रह्म कुतश्चकास्ति परमब्रह्मण्यतीतं ततः ॥१६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68