Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
Jain Education International
ज्ञानचन्द्रोदयनाटकम् ।
यदुपाध्यायेन गुणग्राहीति विनीयमानबालकवत् । तद्गुणिनयादितरतस्तद्वालाघ्यक्षवत् साक्षि ॥ १४७॥ कर्तृनयेन रजकवद् रागादिविभावभावताकर्तृ । निजकर्म करजकाध्यक्षवदितरेण केवलं साक्षि ॥ १४८ ॥
भोक्तृनयाद हितहितान्नभोक्तृ रोगीव दुःखसुखभोक्तृ । इतरेण रोगपीडितचिकित्सिताध्यक्षवैद्यवत् साक्षि ॥१४९॥
स्थाणुभिन्नशिरोजातदृष्टिलब्धघनान्धवत् । क्रियानयादनुष्ठानसाध्यसिद्धिर्निरन्तरम् ॥ १५० ॥
ज्ञानेन चणकमुष्टिक्रीतश्चिन्तामणिः स्वगृहकोणे । वाणिज्यवद् विवेकप्रधानता साध्यसिद्धिरस्य मता ॥ १५१ ॥
द्वैताद्वैतानुवर्तिव्यवहरणनयाद् बन्धकाबन्धकाणुप्रायोग्याण्वन्तरान्तप्रचलदणुकवद् बन्धमोक्षस्य भावात् । स्यादद्वैतानुवर्तिद्वितयगुणयुतत्वाणुतावद् विशुद्धं
सातत्यं बन्धमोक्षद्वयपथपथिकः केवलं निश्चयेन ॥१५२॥
अशुद्धनयतो भवद्घटशरावमृण्मात्रवद् विशिष्टतर कारणाद् भवति तच्च सोपाधिमत् । विशुद्ध नयतो न यद् गतविशेषमृण्मात्रवत् स्वभावनिरुपाधिमज्ञ्जयति निर्गतान्तर्महः ॥ १५३॥
प्रत्येकान्तधर्मस्फुरितनयगणानन्तताचिन्त्यमानं झोरोदान्तर्निमज्जधवलमघवलं यामुनं गाङ्गमम्भः । अन्योन्यत्वाविरोधस्फुरितनयलसद्धर्ममात्रेण तद्वद् द्रव्यं द्रव्यैक धर्मादविवृतमचलामेचकाच्छस्वभावैः ॥ १५४॥
युगपदखिलधर्मव्यापकानन्तनीति
स्फुरित समय सम्यग्ज्ञानविज्ञायमानम् । यदि सकलसरिद्वाः पूरपूर्णैकवार्द्धे
रविवृतवृदिव स्याद्वादतो मेचकं तत् ॥ १५५ ॥
For Private & Personal Use Only
.४९
www.jainelibrary.org
Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68