Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 56
________________ ज्ञानचन्द्रोदयनाटकम् । अस्तित्वावाच्यवृत्या प्रथमविशिखवद् द्वैतविद्धेषुवदा स्वद्रव्यक्षेत्रकालादिभिरपरनिजद्रव्यभावादिभिर्वा । सदाऽवक्तव्यमेतद युगपदपि परस्वान्यताद्रव्यतापुस्तित्वाजिह्मगस्थद्वितयविशिखवन्नास्त्य वक्तव्यमेतत् ॥१३१॥ मस्तित्वनास्त्यवक्तव्यनयेन त्रिविधेषु यत् । सदसद यदवक्तव्यं स्वपरस्वान्यकल्पितैः ॥१३२॥ शिशुकुमारजरत्पुरुषैक्यवत् कृतविकल्पनयात् सविकल्पकम् । यदविकल्पनयादविकल्पक पुरुषमात्रवदेव तदस्मि चित् ॥१३३॥ सकलशब्दविमर्शितदात्मवत् तदपि नाम नयेन विमृश्यते । तदितरेण तदङ्कितमूर्तिवत् सकलपुद्गलतामवलम्बते ॥१३॥ द्रव्याद भूतभविष्यद्वदिहेष्यदतीतपर्ययोद्भासि । भावनयात् पुरुषायिततत्परयोषित्त्वपर्ययोल्लासि ॥१३५।। सामान्यनयाधीनं हारस्रग्दामसूत्रवद् व्यापि । सविशेषनयात् केवलमुक्ताफलवद् यदव्यापि ॥१३६॥ नित्यनयेन सुशिक्षितनटवदवस्थायि निश्चले महसि । अनवस्थायि निरन्तरमनित्यतो रामरावणवत् ॥१३७॥ विस्फारिताक्षचक्षुर्वत् सर्वगतेन सर्ववर्ति महः । विनिमीलताक्षचक्षुर्वद प्रसर्वगतेन चात्मवर्ति परम् ॥१३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68