SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Jain Education International ज्ञानचन्द्रोदयनाटकम् । यदुपाध्यायेन गुणग्राहीति विनीयमानबालकवत् । तद्गुणिनयादितरतस्तद्वालाघ्यक्षवत् साक्षि ॥ १४७॥ कर्तृनयेन रजकवद् रागादिविभावभावताकर्तृ । निजकर्म करजकाध्यक्षवदितरेण केवलं साक्षि ॥ १४८ ॥ भोक्तृनयाद हितहितान्नभोक्तृ रोगीव दुःखसुखभोक्तृ । इतरेण रोगपीडितचिकित्सिताध्यक्षवैद्यवत् साक्षि ॥१४९॥ स्थाणुभिन्नशिरोजातदृष्टिलब्धघनान्धवत् । क्रियानयादनुष्ठानसाध्यसिद्धिर्निरन्तरम् ॥ १५० ॥ ज्ञानेन चणकमुष्टिक्रीतश्चिन्तामणिः स्वगृहकोणे । वाणिज्यवद् विवेकप्रधानता साध्यसिद्धिरस्य मता ॥ १५१ ॥ द्वैताद्वैतानुवर्तिव्यवहरणनयाद् बन्धकाबन्धकाणुप्रायोग्याण्वन्तरान्तप्रचलदणुकवद् बन्धमोक्षस्य भावात् । स्यादद्वैतानुवर्तिद्वितयगुणयुतत्वाणुतावद् विशुद्धं सातत्यं बन्धमोक्षद्वयपथपथिकः केवलं निश्चयेन ॥१५२॥ अशुद्धनयतो भवद्घटशरावमृण्मात्रवद् विशिष्टतर कारणाद् भवति तच्च सोपाधिमत् । विशुद्ध नयतो न यद् गतविशेषमृण्मात्रवत् स्वभावनिरुपाधिमज्ञ्जयति निर्गतान्तर्महः ॥ १५३॥ प्रत्येकान्तधर्मस्फुरितनयगणानन्तताचिन्त्यमानं झोरोदान्तर्निमज्जधवलमघवलं यामुनं गाङ्गमम्भः । अन्योन्यत्वाविरोधस्फुरितनयलसद्धर्ममात्रेण तद्वद् द्रव्यं द्रव्यैक धर्मादविवृतमचलामेचकाच्छस्वभावैः ॥ १५४॥ युगपदखिलधर्मव्यापकानन्तनीति स्फुरित समय सम्यग्ज्ञानविज्ञायमानम् । यदि सकलसरिद्वाः पूरपूर्णैकवार्द्धे रविवृतवृदिव स्याद्वादतो मेचकं तत् ॥ १५५ ॥ For Private & Personal Use Only .४९ www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy