________________
पद्मसुन्दरविरचितं शून्यागारवदेकं ननु शून्यनयेन केवलोद्भासि । इतरेण लोकसंयुतनौकावत् संयुतोद्भासि ॥१३९॥
ज्ञानज्ञेयविकल्पिताद् द्वयनयात् प्राग्भारभूतेन्धनाकारान्तर्गतधूमकेतुवदतीवैकं ततश्चिन्महः । तत्तद् द्वैतनयात् परप्रतिमया संपृक्तवद् दर्पणोsनेक चिद्गुणगुम्फितान्वयमणिपालम्बमालम्बते ॥१४॥ नियतिनियमितोष्ण्यवह्निवद् यन्नियतिनयान्नियतस्वभावभासि । अनियतनिरतस्वभावभासि ह्यनियमितोष्ण्यपयोवदुत्तरेण ॥१४१॥ संस्कारानर्थक्यं स्वभावतो निशिततीक्ष्णकण्टकवत् । तत् सार्थक्यकृदपरादयसा संस्कारितेषुवत्तीक्ष्णम् ॥१४२॥ यत् तत्कालनयान्निदाघदिवसः सम्पच्यमानाम्रवत् कालायत्तनितान्तसिद्धिरभितस्त्वाकालिकन्यायतः । यद्वा कृत्रिमितोष्मयत्नविधिभिः सम्पच्यमानाम्रवत् सद्व्ये घटते नितान्तसमयानायत्तसिद्धिर्बुवम् ॥१४३॥
न्यायात् पौरुषवादिनः समुपलब्धा यत्नसाध्या यतः सिद्धिस्तन्मधुकुक्कुटीव पुरुषत्वाद् दैवनीतेः पुनः । तदत्ता मधुकुक्कुटी तदुदरे माणिक्यलब्धिर्वशाद् देवस्येति च साध्यसिद्धिरभवत् तद्वत् प्रयत्नादृते ॥१४४॥
ईश्वरनयेन धात्र्या हठादिवाश्लिष्टपान्थबालकवत् । तत्पारतन्त्र्यभोक्तृप्रतिफलितमतन्त्रतः स्वस्य ॥१४५॥ स्वच्छन्दवृत्तिदारितकुरङ्गकण्ठीरवोक्तिवज्ज्योतिः । स्वान्त्र्यभोक्तृ परम निर्द्वन्द्वमनीश्वरनयेन ॥१४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org