Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
ज्ञानचन्द्रोदयनाटकम् |
जीवपरिणाममात्रं बहिरङ्गं साघनं समाश्रित्य । कर्मतयाऽणुस्कन्धाः संहन्यन्ते न कर्मकर्ताऽहम् ॥ ६८|| देहान्तरसङ्क्रमणं जायन्ते कर्मतागताणुचयाः । स्वीकृत्य जीवपरिणतिमात्रनिमित्तं ततो न तनुकर्ता ॥ ६९ ॥ रसरूपगन्धवर्जितम शब्द मव्यक्तचिद्गुणमनन्तम् । जीवमलिङ्गग्रहणं संस्थानातीतमात्मना ध्यायेत् ॥७०॥ रुपातीत निरञ्जनपरमात्माऽहं न चास्ति मम बन्धः । रागद्वेषादिभवः सम्बन्धो बन्धसाधकः सोऽस्तु ॥ ७१ ॥ शुद्धोपयोगिजीवः स्फटिकमणिरिवास्ति सोपरक्त भावात् । नीलादिरप्रत्ययभावेनाति बन्धमनवरतम् ॥ ७२ ॥
Jain Education International
रागद्वेषविजृम्भितमोहप्रभवेन येन भावेन । पश्यति जानाति ततः सम्बध्यते सोपरागहेतुवशात् ॥ ७३ ॥ स्निग्धादिस्पर्शरसैरेकत्वगतः स पौद्गलो बन्धः । मोहादिकपर्यायैर्जीवस्य तथोभयोरुभयबन्धः ||७४||
पुदगलकाया जीवप्रदेशकेषु स्फुरत्यपरिस्पन्दात् । तिष्ठन्ति प्रविशन्त्यपि गच्छन्त्यपि ते स्वयं च बध्यन्ते ||७५ ||
बध्यते रागपरिणत एवाssगतकर्मणा न वैराग्ये । न च मुच्यतेऽनुरक्तोऽमुक्तश्चिरसञ्चिते न च विरक्तः ॥ ७६ ॥
ननु परिणामाद् बन्धः स च रागद्वेषमोहभावयुतः । मोहद्वेषाशुभौ शुभोऽशुभो वा भवति रागः ॥ ७७॥
परिणामोऽपि द्विविधो द्विधा विशिष्टः परोपरक्तत्वात् । अविशिष्टोऽनुपरक्तः परेषु स च सकलबन्धविध्वंसी ॥ ७८ ॥
६८=तदी २.७७| ६९ = प्रसा २.७८, तदी २.७८ । ७०= प्रसा २.८०, तदी २.८० । ७१=तदी २.८२। ७२ = तदी २.८३ । ७३ = प्रसा २.८४, तदी २.८४ । ७४ = प्रसा २.८५, तदी २.८५। ७५ = प्रसा २.८६, तदी २.८६ । ७६ = प्रसा २.८७, तदी २. ८७। ७७=प्रसा २.८८ । ७८= तदी २.८९ ।
३९
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68