SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकम् | जीवपरिणाममात्रं बहिरङ्गं साघनं समाश्रित्य । कर्मतयाऽणुस्कन्धाः संहन्यन्ते न कर्मकर्ताऽहम् ॥ ६८|| देहान्तरसङ्क्रमणं जायन्ते कर्मतागताणुचयाः । स्वीकृत्य जीवपरिणतिमात्रनिमित्तं ततो न तनुकर्ता ॥ ६९ ॥ रसरूपगन्धवर्जितम शब्द मव्यक्तचिद्गुणमनन्तम् । जीवमलिङ्गग्रहणं संस्थानातीतमात्मना ध्यायेत् ॥७०॥ रुपातीत निरञ्जनपरमात्माऽहं न चास्ति मम बन्धः । रागद्वेषादिभवः सम्बन्धो बन्धसाधकः सोऽस्तु ॥ ७१ ॥ शुद्धोपयोगिजीवः स्फटिकमणिरिवास्ति सोपरक्त भावात् । नीलादिरप्रत्ययभावेनाति बन्धमनवरतम् ॥ ७२ ॥ Jain Education International रागद्वेषविजृम्भितमोहप्रभवेन येन भावेन । पश्यति जानाति ततः सम्बध्यते सोपरागहेतुवशात् ॥ ७३ ॥ स्निग्धादिस्पर्शरसैरेकत्वगतः स पौद्गलो बन्धः । मोहादिकपर्यायैर्जीवस्य तथोभयोरुभयबन्धः ||७४|| पुदगलकाया जीवप्रदेशकेषु स्फुरत्यपरिस्पन्दात् । तिष्ठन्ति प्रविशन्त्यपि गच्छन्त्यपि ते स्वयं च बध्यन्ते ||७५ || बध्यते रागपरिणत एवाssगतकर्मणा न वैराग्ये । न च मुच्यतेऽनुरक्तोऽमुक्तश्चिरसञ्चिते न च विरक्तः ॥ ७६ ॥ ननु परिणामाद् बन्धः स च रागद्वेषमोहभावयुतः । मोहद्वेषाशुभौ शुभोऽशुभो वा भवति रागः ॥ ७७॥ परिणामोऽपि द्विविधो द्विधा विशिष्टः परोपरक्तत्वात् । अविशिष्टोऽनुपरक्तः परेषु स च सकलबन्धविध्वंसी ॥ ७८ ॥ ६८=तदी २.७७| ६९ = प्रसा २.७८, तदी २.७८ । ७०= प्रसा २.८०, तदी २.८० । ७१=तदी २.८२। ७२ = तदी २.८३ । ७३ = प्रसा २.८४, तदी २.८४ । ७४ = प्रसा २.८५, तदी २.८५। ७५ = प्रसा २.८६, तदी २.८६ । ७६ = प्रसा २.८७, तदी २. ८७। ७७=प्रसा २.८८ । ७८= तदी २.८९ । ३९ For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy