Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 47
________________ पद्मसुन्दरविरचितं इदमेवात्र तात्पर्य शुद्धये परमात्मनः । व्यवहारनयं हित्वा शुद्धनिश्चयमास्यताम् ॥५८।। अन्तस्तत्त्वविवेचनेन च परद्रव्याधपाधौ बलाद् उद्यमोहमपोह्य चिद्गुणलसच्छुद्धात्मप्तसिद्धये । तं सद्भावनिबद्धमुद्धतनिजद्रव्यस्वभावोदयप्राग्भारेण परात्मता विभजनं प्रत्युद्यतो वल्गति ॥५९॥ मात्मा यधुपयोगवानथ स च ज्ञानं तथा दर्शनं चैतन्योभयरूपतोऽशुभशुभोऽशुद्धो द्विधा भिद्यते । शुद्धो निर्गुणनिर्विकारसहजानन्दात्मकस्यात्मनः सद्भावस्तदभावतोऽभ्युगतः स्यात् सोपरागः सदा ॥६॥ सर्वत्र परद्रव्ये मध्यस्थोऽहं भवामि निर्मुक्तः । आत्मन्युपयोगात्मनि नित्यं तिष्ठामि निश्चले महसि ॥११॥ न मनो नाहं देहो न चापि वाणी न कारणं तेषाम् । कर्ता न न कारयिता कर्तणां नानुमन्ताऽस्मि ॥६२।। पुद्गलमयो न चाहं मया न ते पुद्गलाः कृताः पिण्डम् । देहोऽहं न च तस्मादथ कर्ता तस्य देहस्य ॥६३॥ परमाणुप्रदेशः प्रदेशमात्र: स्वयं च यदशब्दः । रूक्षो यदि वा स्निग्धो द्वयादिकतामनुभवत्यसो नाहम् ॥६४॥ एकोत्तराद्यनन्तावसानपरिणामिताणुवैचित्र्यात् । स्निग्धत्वं रूक्षत्वं परिणमति न चाहमस्मि तत्कर्ता ॥६५॥ द्विचतुर्गुणयोरुभयोस्त्रिपञ्चगुणयोस्तु मिश्रयोरथवा । बन्धप्रवृत्तिरेषा परमाणो हमस्मि तद्रूपः ॥१६॥ मञ्जनपूर्णसमुद्गकतुल्यः पुद्गलनिकायचयनिचितः । लोकस्तद्दलिकानां नाऽऽनेताह पुराणपुरुषोऽस्मि ॥६७॥ ५८= तदी २.५९ । ५९ = तदी २.६२।६०-प्रसा २.६३, तदी २. ६३। ६१-तदी २.६७।६२-प्रसा २.६८। ६३ प्रसा २.७० ६४प्रता २.७१। ६५-प्रसा २.७२, तदो २.७२। ६६=तदी २.७४। ६७-तदी २.७६। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68