Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
ज्ञानचन्द्रोदयनाटकम् । नाहं परेषां न च मे परे स्युः । ममायमात्माऽस्य यतोऽहमस्मि । स्वस्वामिसम्बन्धमपास्य शुद्धज्ञानकपुञ्जोऽहमतो न किञ्चित् ॥८७॥ शुद्धात्मानमनाथनन्तमचलं सददर्शनालङ्कृतज्ञानातीन्द्रियरूपचिद्गुणमनालम्बं परद्रव्यतः । व्यक्तं सद् ध्रुवमन्यदध्रुवमिति स्वद्रव्यमव्यञ्जितान्यद्व्यं निजधर्मताविभजनादेकं परेभ्यः पृथक् ।।८८॥ इत्थं शुद्धनयोद्धतध्वजपटो धुन्वन् परद्रव्यतोदश्चरेणुकदम्बकं चलचलच्चिन्मन्दवाताहतः । दृग्ज्ञानाङ्कितसौधशेखर शिखालब्धप्रतिष्ठस्तरामानिष्कम्पचिदङ्कचारुमरुतः सानन्दमानन्दतात् ॥८९॥ रागद्वेषमुदस्य दस्युयुगलं तन्मूलमुन्मूलयन् सर्व वैषयिकं ततोऽधिकरणद्रव्यान्तराभावतः। क्षीराम्भोनिधिमध्यकेवलचलत्पोतस्थपत्रीव शुद्धात्माऽनन्यशरण्यपुण्यमनसो रोधाच्चिति स्थास्यति ॥९॥ प्रवर्ते शुद्धात्मन्यनवरतमत्यन्तविगमात् समस्ताकृत्यानां समरससमारब्धसहजः । स्वभावस्वादुत्वान्मम न ममताऽस्ति क्वचन प्रवृत्तः स्वं सर्वकषनिकषमन्तर्गतमहः ॥९१॥ उत्कीर्णलिखितकीलितमज्जितमूर्छितचिदङ्कविम्बितवत् । मुद्रितचकितचमत्कृतरूपः शुद्धात्मनः स्वभावोऽहम् ॥९२।। भूतै विभवद्भिरभ्युपगतं पर्यायमेदैः स्फुरजज्ञेयज्ञानविवेचकत्वसमुपात्तं वैश्वरूप्यं स्पृशत् । शुद्धानन्तचिदुच्छलत्कलनया यत्रैक्यरूप्यं महागाधाबाधगभोरधीरमहिम स्वं संप्रपद्ये स्वयम् ॥९३॥ ८७=प्रसा २.९९, तदी २.९९ । ८८=प्रसा २.१००, तदी २.१००। ९०=तदी २.१०४॥ ९१-९३-तदी २.१०८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68