Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
पद्मसुन्दरविरचितं षड्जीवनिकाया ये जीवादन्ये च ते परद्रव्यम् । स्वद्रव्यमेक एव स्वयमात्मा चिच्चमत्कृतः सततम् ॥७९॥ अहमिदमस्मि ममेदं भवति भविष्यति ममान्यदप्यासोत् । मोहादिहाध्यवस्यति मूढः स्वपरभावदुरभिज्ञः ॥८०॥ आत्मा कर्ता स्वस्वभावस्य तावत् कर्ता नायं सर्वभावान्तराणाम् । नैवादत्ते नापि मुञ्चत्यचित्त्वं मूर्तत्वान्तर्वर्तमानोऽप्यमूर्तः ॥८१॥ परिणमयिता यो यस्यास्ति स्वयं स तदाश्रयात् स्फुरति तदुपादाने हानेऽयसो हुतभुग यथा । मिलित इव यः कर्माश्लेषैः पुराणपुमानयं स्फुटमुपरतो हानादानादिवेति तदद्भुतम् ॥८२।। यद्धाराधरतोयसिक्तधरणीसम्पर्कतः पुद्गलाः तन्नीरन्ध्रसिलिन्ध्रमेक बलभिद्गोपादिभिभूरिभिः । भावस्तु स्वयमेव ते परिणमन्त्येवं पुराणः पुमान् रागद्वेषवशीकृतोऽशुभशुभैर्भावैः परीस्पृश्यते ॥८३॥ निष्कषायमिव नाम्बरं यतो । याति रञ्जनमिदं निरञ्जनम् । तत्कषायपरिघोलनाहते रङ्ग एव लुठताद् बहिर्बहिः ॥८४॥ साध्यस्य साधकतमः पुनरत्र शुद्धद्रव्यस्य शुद्धनय एव न चेतरस्तु । प्रद्योतयेदथ हिमधुतिमङ्गभासां प्राग्भार एव न च चन्द्रकलङ्कपङ्कः ॥८५॥ यदशुद्धनयाधीनद्रव्यं स्यात् तदशुद्धिमत् ।
परद्रव्येषु कुर्वाणो ममतां कुपथानुगः ॥८६।। ७९ प्रसा २.९०, तदी २.९०। ८०-प्रसा २.९१, तदी २.९१। ८१-प्रसा २.९२९३, तदी २.९२-९३। ८२=तदी २.९३। ८३=तदी २.९५। ८५= तदी २.९७१ ८६-प्रसा २.९८, तदी २.९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68