Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 52
________________ ज्ञानचन्द्रोदयनाटकम्। ज्ञानिनां ज्ञानकर्ताऽयमात्माऽन्यत्वस्य न क्वचित् । व्यवहारविमुग्धानां परभावस्य कारकः ॥१०॥ विज्ञानजनिताः सर्वे ज्ञानिनां प्रस्फुरन्ति ये । अज्ञानजनिता भावाः स्फुरन्त्यज्ञानिनामिह ॥१०२॥ यो मुक्त्वा नयपक्षपातमखिलं हित्वा विकल्पावली निक्षेपक्षपणेन विलुतपरद्रव्यादिभेदभ्रमः । अस्ता वस्तुसमस्तसंस्तुतिकथा विस्तारदौर्विध्यतो निद्वन्द्वं भजते स्वरूपपरमब्रह्मैकधामाद्भुतम् ॥१०३॥ यत्र प्रमाणनयदुर्नयवाक्प्रपञ्चनिक्षेपचक्रकथनक्रममस्तमेति सच्चिच्चमत्कृतिनिरूपितरूपरम्यं धामाद्भुतं जयति निर्वचनीयमुद्यत् ॥१०४।। कर्म कर्मणि लसत्यपि कर्ता कर्तरि द्वयमिति प्रतिषिद्धम् । अस्तु वस्तु नियतं नियतात्मव्यञ्जितं विदि चिदुच्छलनेन ॥१०५॥ ज्ञानमस्ति विदि नाविदि विद्वन् कर्म कर्मणि च कर्तरि कर्ता । किं करोति न करोति च कः किं ज्ञानवानुपरतः परभावात् ॥१०॥ ज्ञानिनागपि महानिह मोहो मोहयत्यहमिहेति विकल्पात् । तत् कुतो भ्रमवतामवकाशोऽज्ञानिनामहितहेतुविमोहात् ॥१०७।। चिद्विवर्तितनिवर्तितभिन्नद्रव्यसंवलनमुबलनेन । चिन्महश्चिति चिदुच्छचनान्तःपातिनातिचरति क्रमभूमिम् ॥१८॥ ज्ञाप्तेगुप्तिपरिवर्तितवृत्तिव्यज्ञिताजनवियुक्तमयुक्तम् । पुद्गलादिभिरविभ्रमभावा दात्मसादलमलंचरिकर्ति ॥१०९॥ १००=आत्म श्लोक ६० (पृ० १६१)। १०१=आत्म लोक ६२ (पृ. १६२)। १०२ आत्म श्लोक ६६ (पृ० १९२) । १०३=आत्म श्लोक ७. (पृ. २०२)। १०५-१०६ आत्म लोक ९९ (पृ०२११) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68