Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
४२
Jain Education International
पद्मसुन्दरविरचितं
आत्मव्यज्ञकशब्द पुद्गलमिलच्चेतः प्रवृत्तिस्फुरदभेदज्ञान विधानसाधकतमप्रव्यक्तियुक्तः पुमान् । ज्ञप्तिस्तत्परमागमादपि भवेत् तस्मादुपात्तश्रुतः संशेते न परप्रवादवचनैः स्वामात्मशुद्धिं दधत् ॥ ९४ ॥ ज्ञानज्योतिः स्फुरति परमार्थे न मे तावदासीत् आसीदामि स्वजनजननात्मा ममानादिबन्धुः । आत्मन्नाथं जनकजननीपुत्रमित्रं कलत्रं त्वामुद्भिन्नं सपरमपरं न त्यजामि त्यजामि ॥९५॥
त्वमेव चरणं ममाचरणमप्युदग्रं तपः त्वमेव मम दर्शनं त्वमवबोधरूपं मम । व्रतं समितिगुप्तिभिः सहितमन्तरङ्गश्रुतं त्वमेव भगवांश्चिदुल्लसिततत्त्वमत्यद्भुतम् ॥९६॥
ज्ञातृज्ञेयपरत्वतत्त्वविलसत्पाण्डित्यशौण्डः परद्रव्यान्तर्बहिरङ्गसङ्गतिपरित्यागात् स्वरूपे स्थितम् । तादृग्गुप्तसुषुप्त कल्पविदितान्तस्तत्त्ववृत्त्या मनाग् अप्यासक्तिमनानयन्नुपरतश्चिद्रूपमुन्निद्रयेत् ॥९७॥
जानन्तोऽपि न जानन्ति भेदज्ञानपराङ्मुखाः । जानन्त एव जानन्ति परमात्मानमव्ययम् ॥ ९८ ॥
अज्ञानप्रविजृम्भणेन तमसा रज्जौ भुजङ्गभ्रमस्त्वज्ञानेन मरीचिकासु हरिणा धावन्ति पाथोधिया । अज्ञानेन विमोहितैकमनसां स्थाणौ मनुष्य मो वातोद्वेलितवार्धिवद्धि मृशतां चेतो विकल्पीयति ॥ ९९ ॥
विज्ञानेन ष्णत्वमग्नेरिवाऽपां
"शैत्यं सौरभ्यं लसत्पङ्कजानाम् ।
चैतन्योऽयं धातुरच्छस्वभावः कर्मस्पन्दादेति कर्तृत्वभावम् ॥१००॥
९५=तदी३.२ । ९९=आत्म श्लोक ५८ ( पृ० १६१ )
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68