Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
ज्ञानचन्द्रोदयनाटकम्।
३७
तत्त्वविप्लवभयादिह कश्चिद् वृत्तिमानपि तदाश्रयभूतः । सप्रदेश इममाश्रयणोयो नाप्रदेशमनुगव्यतिरेकौ ॥४९॥ ततः प्रदेशमात्रं हि तद् द्रव्यसमयं यतः । पर्यायसमयः सिद्धयेत् तदतिकामतस्त्वणोः ॥५०॥ एकेनैव प्रदेशेन वर्तते प्रथमं ततः । अन्येनान्यतरेणापि प्रदेशेन ततो मतः ॥५१॥ स तिर्यक्षचयोऽप्यूर्वप्रचयोभूय केवलम् । व्यवस्थापयति द्रव्यं तत्प्रदेशैकमात्रया ॥५२॥ तत् तिर्यकुप्रचयस्योर्ध्वप्रचयत्वमनिच्छता । द्रव्यं प्रथमतः स्थाप्यं प्रदेशमितमञ्जप्ता ॥५३॥ आकाशादिसमग्रलोकमखिलज्ञेयं विभज्य स्वतः संवित्तिप्रविम्भितप्रकटितज्ञानेन बुध्धा स्फुटम् । ज्ञातृद्रव्यमनन्तसन्ततरसास्वादोन्मुखीभूय तद् जोवत्वं यदिदं विविक्तममुना चैतन्यमातन्यते ॥५४॥ प्राणैर्जीवति यस्तु जीवितचरो जीविष्यतीति स्वयं जीवो युक्तिनिरुक्तिमभ्युपगतः प्राणैस्तु सामान्यतः । यद्यस्त्येव तथापि पुद्गलजडद्रव्येण निर्वर्तितस्वादात्मा न घटामियति तदृते चैतन्यसंचेतनात् ॥५५॥ मोहादिप्रसरदविभावकलुषत्वापत्तिमत्पुद्गलद्रव्योदञ्चदपञ्चमाञ्चितचरप्राणैर्यतो जीवति । नैतद् युक्तनिरुक्तमुक्तमचलद्रव्यानुषङ्गप्रसङ्गानारोपितरूपचिद्गुणतया सम्यक् समालम्ज्यताम् ।।५६।। यत्कर्ममलमालिन्यमलिनो मलमिच्छति ।
तत्तेषु ममताहेतुरन्तरङ्गो विधिर्बली ।।५७॥ ५५=प्रसा २.५५, तदी २.५५। ५६-प्रसा २.५६-५७, तदी २.५६-५७ । ५७-तदी २.५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68