SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकम्। ३७ तत्त्वविप्लवभयादिह कश्चिद् वृत्तिमानपि तदाश्रयभूतः । सप्रदेश इममाश्रयणोयो नाप्रदेशमनुगव्यतिरेकौ ॥४९॥ ततः प्रदेशमात्रं हि तद् द्रव्यसमयं यतः । पर्यायसमयः सिद्धयेत् तदतिकामतस्त्वणोः ॥५०॥ एकेनैव प्रदेशेन वर्तते प्रथमं ततः । अन्येनान्यतरेणापि प्रदेशेन ततो मतः ॥५१॥ स तिर्यक्षचयोऽप्यूर्वप्रचयोभूय केवलम् । व्यवस्थापयति द्रव्यं तत्प्रदेशैकमात्रया ॥५२॥ तत् तिर्यकुप्रचयस्योर्ध्वप्रचयत्वमनिच्छता । द्रव्यं प्रथमतः स्थाप्यं प्रदेशमितमञ्जप्ता ॥५३॥ आकाशादिसमग्रलोकमखिलज्ञेयं विभज्य स्वतः संवित्तिप्रविम्भितप्रकटितज्ञानेन बुध्धा स्फुटम् । ज्ञातृद्रव्यमनन्तसन्ततरसास्वादोन्मुखीभूय तद् जोवत्वं यदिदं विविक्तममुना चैतन्यमातन्यते ॥५४॥ प्राणैर्जीवति यस्तु जीवितचरो जीविष्यतीति स्वयं जीवो युक्तिनिरुक्तिमभ्युपगतः प्राणैस्तु सामान्यतः । यद्यस्त्येव तथापि पुद्गलजडद्रव्येण निर्वर्तितस्वादात्मा न घटामियति तदृते चैतन्यसंचेतनात् ॥५५॥ मोहादिप्रसरदविभावकलुषत्वापत्तिमत्पुद्गलद्रव्योदञ्चदपञ्चमाञ्चितचरप्राणैर्यतो जीवति । नैतद् युक्तनिरुक्तमुक्तमचलद्रव्यानुषङ्गप्रसङ्गानारोपितरूपचिद्गुणतया सम्यक् समालम्ज्यताम् ।।५६।। यत्कर्ममलमालिन्यमलिनो मलमिच्छति । तत्तेषु ममताहेतुरन्तरङ्गो विधिर्बली ।।५७॥ ५५=प्रसा २.५५, तदी २.५५। ५६-प्रसा २.५६-५७, तदी २.५६-५७ । ५७-तदी २.५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy