________________
३६:
पद्मसुन्दरविरचितं
स तस्य तत्र वृत्त्यंशे प्रध्वंसः प्राग्विशेषतः । यदि भङ्गभवावेकवृत्त्यंशे भवतस्तदा ॥३६॥ समयस्य पदार्थस्य स्यान्निरन्वयता कथम् । यतः पूर्वोत्तरांशाभ्यां युगपद् द्वयवर्तिनः ॥३७।। स्वभावेनाप्यनुत्पन्नाऽप्रध्वस्तत्वादवस्थितः । एवमेकत्र वृत्त्यंशे समयार्थस्य तत् त्रयम् ॥३८॥ बृत्त्यशेषु समस्तेषु समयार्थस्य तत् त्रयम् । एकस्मिन्नपि वृत्त्यंशे तस्य दर्शनतोऽस्ति हि ॥३९॥ सद्भावोऽस्तीति कालाणोर्विशेषास्तित्वसुस्थितेः । विना समानतास्तित्वमुपपत्तेरसंभवः ।।४०॥ अस्तित्वं तावदुत्पादव्ययध्रौव्यैकतात्मिका । न प्रदेशं विना वृत्तिः कालस्य खलु संभवेत् ।।४१॥ यतो वृत्तिमतोऽभावः प्रदेशाभवने सति । स तु शून्योऽस्तिसंज्ञाया वृत्तेरन्तरत्वतः ॥४२॥ न वृत्तिः केवलैवापि कालो भवितुमर्हति । वृत्तिमन्तं विना वृत्तेरुपपत्तेरसंभवः ॥४३॥ उपपत्तिर्यदोत्पादव्ययध्रौव्यैकता कथम् । अनेकांशात्मकत्वेन पूर्वाशध्वंसतस्तथा ॥४४॥ उत्पादादुत्तरांशानामेकात्मध्रौव्यतोऽस्ति चेत् । नैवं भङ्गोऽस्ति यत्रांशे यस्मिन्नुत्पादता तयोः ।।४५॥ सहवृत्तेरभावत्वाद् द्वयोरप्येकता कुतः । सर्वथाऽस्तमितत्वेन प्रध्वस्तांशस्य भाविनः ॥४६॥ संभावितात्मलाभत्वाद् ध्वंसोत्पादैक्यवर्तिवत् । कुतस्त्यं ध्रौव्यमित्येवं सति नश्यति तत् त्रयम् ॥४७॥ उदेति क्षणभङ्गस्तु द्रव्यमस्तमुपै।त तत् ।
क्षणेन क्षयिणो भावा उदोयन्ते निरन्तरम् ।।४८। ३९-४०=तदी २.५१। ४१-५२-तदी २.५२ ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org