________________
ज्ञानचन्द्रोदयनाटकम् । अभिन्नांशाविभागैकद्रव्यत्वेनैकमस्ति किम् । कि भिन्नांशाविभागैकद्रव्यत्वेनैकमप्यथ ॥२४॥ आद्यश्चेदङ्गलेः क्षेत्रं तेन द्वयंशाद्यभावतः । ततः प्रदेशमात्रत्वं परमाणोरिवाम्बरे ॥२५॥ चेद् द्वितीयोऽविभागैकद्रव्यस्यांशत्वमागतम् । अनेकं चेत् तदा सांशानेकद्रव्यत्वतः किमु । किं वा शैकतारूपद्रव्यत्वेन यदादिमः ॥ २६ ॥ षट्पदिकेयम् ॥ द्रव्यस्यैकस्य तु व्योम्नोऽनन्तद्रव्यत्वमागतम् । चेद् द्वितीयोऽविभागैकद्रव्यस्यांशत्वमागतम् ॥२७॥ प्रदेशप्रचयस्तिर्यक्प्रचयः स निगद्यते । समयप्रचयस्तावदूर्ध्वप्रचयसंज्ञितः ॥२८॥ तत्राकाशादिपञ्चानां तिर्यक्प्रचयता मता । कालस्य न प्रदेशस्य शक्त्या व्यक्त्यैकरूपतः ॥२९॥ त्रिकोटिस्पर्शस्तृर्ध्वप्रचयः सांशताबलात् । द्रव्यवृत्तेस्ततः सवेद्रव्याणामनिवारितः ॥३०॥ समयविशिष्ट वृत्तिप्रचयः शेषेषु नियतमूर्ध्वप्रचयः । कालस्योर्ध्वप्रचयः समयप्रचयो नियत एव ।।३१॥ समयः समयार्थस्य वृत्त्यंशस्तत्र संभवः । प्रध्वंसश्च द्वयं चाणोभङ्गोत्पादस्य कारणात् ॥३२॥ चेद् वृत्त्यंशस्य तौ स्यातां योगपद्येन वा क्रमात् । नाद्यः सममि, कस्य द्वयोरनवतारतः ॥३३।।
न द्वितीयोऽस्ति वृत्त्यंश(? शः) सूक्ष्मत्वेनाविभागतः । ततः कोऽप्यनुसर्तव्यो वृत्तिमानात्मनिश्चयात् ॥३४॥ पदार्थः समयः स स्यात् तवृत्त्यंशे द्वयं समम् ।
यस्य वृत्तिमतो यस्तु वृत्त्यंशे यत्र संभवः ॥३५॥ २८-३१=तदी २.४९ । ३२-३८=तदी २.५० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org