________________
३४
पद्मसुन्दरविरचितं
परस्परमसंभवद् भवति तद्गुणत्वं गुणि ध्वनन्यतरमन्तरा गुणमसंभवस्तद्वताम् । ततो गुणविशेषतो गुणिविशेषता चेष्टते स्वतोऽधिगमयत्ययं न परभावमादित्सति ॥१६॥ जंबो मूर्ती धर्माधर्मा विहायः सङ्ख्यातीतैः स्वप्रदेशैरभिन्नाः । कालाणुः स्यादप्रदेशस्तु तावन्मात्रत्वेनानेकरूपो न तस्मात् ॥१७॥ शुद्धाकाशोऽनन्तरूपप्रदेशो लोकाकाशापेक्षया सप्रदेशः । कालाणोस्तु द्रव्यजातप्रदेशं व्याप्याद्वैतं तस्थुषः सप्रदेशः ॥१८॥ योऽभिव्याप्तो येन कालाणुनायं शुद्धाकाशस्य प्रदेशस्तमेव । मूर्ताणुश्चातिक्रमन् मन्दगत्या तन्मात्रः स्याद् द्रव्यकालस्य सूक्ष्मः ॥१९॥ पर्यायोऽयं तस्य स व्यञ्जकोऽर्थों द्रव्यं प्रादुर्भावविध्वंसहोनम् । प्रादुर्भूतध्वंसरूपः समन्तात् पर्यायोऽयं सूक्ष्मकालस्य संज्ञा ॥२०॥ आकाशस्य प्रदेशानामतिक्रमणतः समम् । साधयेन तदंशत्वं कालाणुस्तीवगाणुतः । २१॥ विभागः संभवत्येव नभोद्रव्ये प्रदेशतः । अविभक्तेऽपि सर्वेषां द्रव्याणां स्थानदानतः ॥२२॥ यद्यशा न स्युरित्थं चेन्मतिः स्यादङ्गलोद्वयम् ।
प्रसार्य कथ्यतामेकमने क्षेत्रमस्ति किम् ॥२३॥ १६=तदी २.४१-४२ । १७-प्रसा २.४३, तदी २.४३ । १८ तदी २.४३ । १९ -२१=तदी २.४७। २२-२७-तदी २.४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org