Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
ज्ञानचन्द्रोदयनाटकम्
33
मूर्तः पुद्गल एव तद्गतगुणा मूर्तास्तदाकारतो वर्णाधा निजविश्रप्तापरिणताः केचित् प्रयोगानुगाः । मूर्तातीतगुणास्त्वमूर्तसकलद्रव्येषु शेषेष्वतो मूर्तामूर्तगुणप्रपञ्चचतुरश्चैतन्यचिन्तामणिः ॥९॥
मूर्त पुद्गलजन्यमिन्द्रियभवज्ञानेन यद् व्यज्यते शब्दो नापि गुणत्वमभ्युपगतो द्रव्यस्य पर्यायतः । यद्वाऽमूर्तगुणस्तदा गुणगुणिद्वन्द्वाविभक्तप्रदेशत्वेनैकतया स्वभावभवनाद् द्रव्यं तदा श्रावणम् ॥१०॥ कादाचित्कतया चकास्ति नियतं पर्यायतालक्षणं शब्दो मूर्तगुणोऽपि तन्न गुणता नित्याऽस्ति तद्रपिणः । यन्नित्यत्वमणुष्ववापि न च तच्छब्दे गुणादिष्वपि स्यात्पक्षाय कृतो जलाञ्जलिरतः शब्दे गुणख्यापकैः ॥११॥ अब्ज्योतिर्मरुतामिवाप्रकटनात् स्पर्शादिमत्त्वस्य तत् चन्द्रामारणिवेगतासु (!) च पटुस्पर्शादिमत्सु स्फुटम् । नानारूपतयाऽणुभिः परिणतेष्वेभिस्तदारम्भकैः व्यक्ताव्यक्ततमत्वमस्ति नियतं पर्यायभेदेषु सत् ॥१२॥
कादाचित्कपरीणामवैचित्र्यप्रत्ययं न च । व्यक्ताव्यक्तत्वमेवास्ति गुणस्येति न संमतम् ॥१३॥
ततोऽस्तु शब्दः पर्यायः पुद्गलस्यैव नास्ति चेत् । नित्यद्रव्यस्वभावस्य प्रतिघाताय जायते ॥१४॥
आकाशस्यावकाशो गतिरिति नियता धर्मनामन्यधर्मे स्थानत्वं हेतुरुक्तः समय इह गुणो वर्तनालक्षणत्वम् । जीवः शुद्धोपयोगाद्यनुभवभवनानन्यचैतन्यमूर्तिः ।
टङ्कोत्कीर्णस्वभावप्रसृमरसहजानन्दपूर्णा चलार्चिः ॥१५॥ ९-प्रसा २.३९, तदी २.३८-३९ । १०-तदी २,३९-४०। ११-१४-तदी २.४० । १५-प्रसा २.४१-४२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68