Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
Jain Education International
ज्ञानचन्द्रोदयनाटकम् ।
अथ स्यादसदुत्पादः कुम्भस्याभवनौ ततः । सर्वेषामेव भावानां भवेदभवनिः स्फुटम् ॥५१॥ गगनेन्दीवरादीनाम सतां जननिस्तदा । मृत्पिण्डस्याप्य संहारकारणाभावनावतः ॥ ५२॥ असंहरणिरेव स्याद् भिन्नसंहारकारणात् ॥ सर्वेषामेव भावानामसंहरणिरञ्चति ॥ ५३॥ उच्छेदः संविदादीनां सदुच्छेदेऽथवा भवेत् । व्यतिरेकसमाक्रान्तस्थितेरन्वयशून्यतः ॥ ५४॥ मृत्तिकाया यदस्थानिः प्राप्तायाः केवलस्थिति । सर्वेषामेव भावानामस्थानिरुपपद्यते ॥ ५५ ॥
सति क्षणिक नित्यत्वे चित्तस्य क्षणनित्यता । सत्सु क्षणिकभावेषु द्रव्यशून्यप्रसङ्गता ॥ ५६ ॥ उत्तरोत्तरतरव्यतिरेकसृष्टितः प्रथमसंहृतिरूपात् । स्वान्वयस्थितिमवस्थितमेतत् त्रितयाङ्कितमभिद्रवतीति ॥ ५७ ॥ उत्पाद स्थितिभङ्गभेदरचना पर्यायमालम्बते
सद् द्रव्यं समुदायिनः समुदयाभेदादिदं शास्त्रिवत् । शाखाभिर्भवनं गता ध्रुवतया बीजाङ्कुरानो कहावस्थामिः प्रतिभाति केवलमसद्भिन्नैरभेदस्ततः ||१८|| अवतरति हृदयभूमिं क्षणभेदस्तर्क्यमाण एवं सदा । तदपि च तत्क्षणवर्ति द्रव्यं तत् त्रितयसमवेतम् ॥५९ ॥ दण्डभृद्दण्डचक्राद्यारोप्यमाणाङ्गसन्निधौ ।
यो मृत्पिण्डस्य सर्गस्य क्षणो नाशस्य स कचित् ॥६०॥ कोटियाधिरूढस्य मृत्तिकात्वस्य स स्थिते: । तथान्तरर्बहिरङ्गानां साध्यसाधनसन्निधौ ॥ ६१ ॥ उत्तरप्राक्तनानां च जन्मनाशक्षणावुभौ । कोटिद्वयाधिरूढस्य द्रव्यत्वस्य स्थितिक्षणः ॥६२॥ ५८-६३ = प्रसा २. ९-१०, तदी २. ९-१० ।
For Private & Personal Use Only
२३
www.jainelibrary.org
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68