Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
३२
Jain Education International
पद्मसुन्दरविरचितं
प्रवाहक्रम संवृत्ताः परिणामात् सदाऽणवः । अन्योन्यव्यतिरेकेण विष्कम्भस्तन्निबन्धनः । प्रदेशपरिणामानां प्रवाहस्य क्रमः सदृक् ॥ ४१ ॥ षट्पदी |
स्वरूपपूर्वरूपाभ्यामुत्पन्नोत्सन्नता क्रमात् ।
निजस्थाने प्रदेशास्ते परिणामात् तथा मताः ॥ ४२ ॥
अन्योन्यसंवलितवस्तुतयैकयाऽपि सर्गस्थितिप्रलयतो ननु धारयन्ति । त्रेधात्मकं निजमसङ्करदोषवृत्त्या सर्वे प्रदेशपरिणामविशेषरूपाः ||४३||
मुक्ताप्रालम्बलम्बिज्वलदमलगुणा मुक्तमुक्ताफलानां पूर्वेषामप्रकाशोदयनमुदयनादुत्तरेषां प्रभायाः । सर्वेषां चाकचिक्यं सममसमतया पूर्वबाधः परेण वैक्यं निर्विशेषात् तदिव परिणतेः स्यादनुस्यूतिरस्य ॥ ४४|| सर्गः संहृतिमन्तरा न घटते नासौ तमप्यन्तरा नैतावप्यचलात्मकस्थितिविनाभूतौ न चेयं तयोः । भिन्ना सृष्टिरिवस्ति संहृतिरपि सृष्टिः स्थितिर्यो पुनस्तावेव स्थितिरत्र नैव घटतेऽन्योन्याविनाभावितां ॥ ४५ ॥ सर्गः कुम्भस्य यस्यैव मृत्पिण्डस्यास्ति संहृतिः । भावस्यान्यतराभावस्वभावेनावभासनात् ॥४६॥ यो मृत्पिण्डस्य संहारः सर्गः कुम्भस्य स ध्रुवम् । अभावस्यान्यवद्भावस्वभावेनावभासनात् ॥ ४७॥ यौ कुम्भ-पिण्डयोः सर्ग-संहारौ सा मृदः स्थितिः । तन्मुख्यव्यतिरेकेणान्वयस्यैव प्रकाशनात् ॥ ४८ ॥ या ते मृदः स्थितिः कुम्भ- पिण्डयोः सर्ग-संहृती | तयोस्तु व्यतिरेकाणामन्वयस्यानतिक्रमात् ॥ ४९ ॥ सर्ग मृगयमाणस्य केवलं भिन्नमन्यतः | आदानकारणाभावाद घटस्याभवनिर्भवेत् ||५० || ४५ = प्रसा २.८ । ४६-५७ = तदी २.८ ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68