Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 37
________________ २८ पद्मसुन्दरविरचितं पर्यायाद्यनवस्थितोऽपि स निजद्रव्योदयावस्थितो नाना संसरत: क्रियापरिणतौ द्रव्यस्य मोहोदयात् । संसारः स निगद्यते भवभवाभेदेन संभाव्यतां प्राचीनोत्तरनिर्विभागमहिमा चैतन्यचण्डद्युतिः || ९२|| आत्मा कर्ममलीमसः परिणतिं लब्ध्वा यतः कर्मणः कर्माश्लिष्यति नूतनं परपरीणामो हि हेतुस्ततः । कर्ताऽऽत्माऽऽत्मनि कर्मणां परिणते: कर्तृत्वभावादयं स्यादेषामुपचारत: किल तदा बन्धस्य सिद्धिर्ध्रुवम् ॥९३॥. आसंसारभवद्रव्यकर्मकालुष्यभाविते । कार्यकारणभूतस्य कर्मणः कर्तृताऽऽत्मनि ॥९४॥ स्यात् कर्ता परिणामतः स्वयमयं तस्मादनन्यत्वतः कर्तृत्वेन विवक्षितः परिणतिः सा तन्मयी तत्क्रिया । सा कर्मैव निजात्मनानपगता प्राप्या स्वतन्त्रेण वा तस्माद्भावकलङ्कपङ्करजसां कर्ता परेषां न हि ||९५|| उपचारात् क्रिया कर्म कर्तृणामेव रूपतः । आत्मा कर्ताssत्मभावानां पुद्गलः पुद्गलात्मनाम् ॥ ९६ ॥ क्रिया निष्क्रान्ता । अथ चित् त्रिपात्रीभूय प्रविशति । Jain Education International तस्मादात्मा परिणमति चेच्चेतनायां निजायां सापि त्रेधा विदितविशदज्ञानपुरे महिम्नि | कर्मण्येका तदनुगफले नातिवर्तेत चित्रं मेदाभेदभ्रमविरहितश्चेतनैवायमात्मा ॥९७॥ पदार्थानां ज्ञानं मुकुरेहृदयाभोग इव यो विकल्पस्तत्कर्म स्वयमपि विधेयं विधिवशात् । सुखं वा दुःखं वा फलति सुकृतं दुष्कृतमपि त्रिधा चैतन्यात्मन्यवतरति निश्चित्य चितिचित् ॥ ९८ ॥ ९२ = तदी २.२८ । ९३ = प्रसा २.२९, तदी २.२९ । ९४ - ९६ = तदी २.३० । ९७ = प्रसा २.३१, २.३१ । ९८ = तदी २.३२॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68