Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 29
________________ पद्मसुन्दरविरचितं मूलसाधनताभूतैरुत्पादित सदस्तिवत् । । कुण्डलाङ्गदपर्यायपीततागुरुता ततः ॥१९॥ ध्रौव्योत्पादव्ययानां यत् स्वरूपमनुवर्तयन् । गुणैः पर्यायभेदैरप्यभिन्नं सत्त्वमस्य हि ॥२०॥ अधिकरणकर्तृकरणैर्भाव्यं निष्पादितस्य निष्पत्त्या । सवृत्तिविवर्तमानप्रवृत्तियुक्तैः सदस्तित्वम् ॥२१॥ अस्तित्वं हि सतोऽसतो न च भवेन्निष्पादितं तैरतद्भिन्नैर्भावमपेक्ष्य साधनतया साध्यं न चैवान्यथा । तत्तद्भावमनुज्झदुज्झितपरद्रव्यान्तराडम्बरं वलगत्युद्धतमुद्धतं त्रिजगतामन्तबहिः सर्वतः ॥२२॥ प्राग्वैचित्र्यकृतप्रपञ्चरचनाचातुर्यतुर्याऽनया कल्पिद्रव्यपटः पटीयसि गुणस्तोमे ततस्तन्यते । सादृश्यस्तिमितास्तितास्तमिततद्वैचित्र्यचित्रः पटः सामान्यानुभवात् सदस्ति सकलद्रव्यं प्रतीत्याऽञ्चति ।।२३।। एकमेवावबोद्धव्यं सत्परिच्छेदनं सतः । बहुव्यापकसामान्यात् सर्वद्रव्येषु कल्पते ॥२४॥ यद्येवं न तदा किमस्ति सदसत् किञ्चित् कचिन्नास्ति सत सद्वाच्यमिति प्रभेदभिदुरैरुद्भिद्यते सद्गिरिः । सर्व विप्रतिषिध्यते न च तथासाध्यं विशेषाजहसामान्येन समुत्थितः पथि परानुत्थाप्य नानात्मके ॥२५॥ यथाऽनोकहरूपाणां सादृश्यास्तिप्रसङ्गतः । एकत्वमत्र नानात्वं स्वस्वरूपास्तिताबलात् ॥२६॥ तथा बहूनां द्रव्याणां सादृश्योद्भासितैव सत् । एकत्वमपि नानात्वं स्वस्वरूपास्तिसंभवात् ॥२७॥ यदुच्चकास्ति नानात्वमनानात्वं परस्परम् । तिरोधायाविरोधेन समुत्तिष्ठति निष्ठितम् ॥२८॥ २३-२८-तदी २.५। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68