Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
पद्मसुन्दरविरचितं इत्थं ब्रह्म सनातनं निरुपमद्रव्यार्थरूपं पराचीन यत् परतः स्वभावविषयं रागाद्युपाधिच्युतम् । पूर्णज्ञानकलाविलासविलसच्चैतन्यमुन्न यतां चित्संविन्निशितासिनाशितमहामोहेशदुःशासनम् ॥१५॥ निशिततरवारिधारापथोनमवलम्ब्य जैनमुपदेशम् ।
दारय निर्दयहृदयं मोहमहादुष्टभटकटकम् ॥१६॥ बन्धो निष्क्रान्तः । अथ प्रविशति संवररूपा स्वसंविदनुभूतिः ।
परिच्छिनत्यविच्छिन्नचैतन्येनात्मतां स्वयम् । परं च परकीयेन सविशेषविवेचकः ॥१७॥ संन्यस्यापरभावमात्मगुणतामादाय शुद्धस्फुरत्संवित्तिप्रतिपत्तिनिश्चलधिया ये लब्धवर्णाः किल । तद् द्रव्यं सकलत्रिकालकलितधोव्यं समत्वे समालम्बन्तामपहाय तद्विसदृशं द्रव्यान्तरं तत्समम् ॥१८॥ निश्चिन्वन्नहमा त्मसादभिलसच्चैतन्यमुद्राङ्कितस्फारस्फूर्जदमन्दसुन्दरमहो मन्दारकन्दायितम् । नाहं द्रव्यमनात्मनीनमभितो निर्वासितान्तर्बहि
|लाजालकलाकलापकलितश्चैतन्यचन्द्रोदयः ॥१९॥ सजातीयविजातीयभेदानासघ तत्त्ववित् । सजातीयविजातीयभेदेभ्यो भिन्नमीक्ष्यताम् ॥२०॥ परिच्छिन्दन्नन्तःस्वपरपरतामभ्रमतया विभिध स्वारूप्यं सदृशतुलनां बिभ्रदपि च । समाकीर्णा यद्वत् कनककणिका लिपटलैरिवादाय स्वस्यापनयनविधौ शुद्धिरजनि ॥२१॥ अशुभशुभनिशुम्भनाय शुभ्रद्यतिरतिर्निवचनीयशुद्धबोधः । अवधृत कृतकृत्यतामवाप्य प्रसभमनाकुलमाकलय्य तस्थौ ॥२२॥ आत्मज्ञानविम्भिताऽप्रतिहतालोकान्तदृष्टिः परा । रागद्वेवविशुद्धशुद्धसकलादर्शोल्लसदर्शनम् । निताखिलघातिकल्मषतया चिच्चेतनस्यात्मनः स्वच्छन्दं प्रससार सारपरमानन्दात्मरूपं महः ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68