Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
तृतीयोऽङ्कः। स्फुरति विशदज्ञानेऽज्ञानेऽवसीदति नोचकैरुदयमदयं द्वैतस्यायं विवेच्य विदारयन् । उदयतितमामग्नेयोगाद् विभिन्न इवायसो द्रुघणघनताजन्यं दुःखं क्षयं नयति क्षणात् ॥१॥ सर्वारम्भस्तम्भशोभायमानं प्रोन्मूल्याचं मोहहयं सुरम्यम् । स्वात्मारामे रंरमीत्येकवेलं नीत्वा वैरं स्वैरतामभ्यनन्दत् ॥२॥ यत्रान्वयान्वयविशेषणचिद्विवर्तग्रन्थीयमानजननव्यतिरेकरूपाः । त्रैकालिकाः कलनयाऽपि न वस्तुतस्तु मुक्तानुविद्धतनुसूत्रमिव स्फुरन्ति ॥३॥ चिदानन्दस्पन्दप्रसृमरतरज्योतिरमलप्रलम्बप्रालम्बे गुणमणिगणोद्गुम्फनमिव । विधायान्तर्धानं चिति चरितचैतन्यविलप्त
त्तरङ्गास्तारङ्गे निज सहजरङ्ग विदधते ॥४॥ एकपात्रीभूय सामान्यबन्धो निष्क्रान्तः । अथ विशेषबाधो मोहरूपेण त्रिपात्रीभूयावतरति ।
तावद्वैरं रचयतुतरां मोहमूर्धाभिषिक्तस्कन्धाचारोद्भटभटघटारागरोषादिवर्गः । यावन्नायं सकलविमलज्ञानशाणेन धारां धत्ते सर्वकषपरतयाऽरूपचिद्रूपभूपः ॥५॥ रागद्वेषद्वयभ्रान्तिमदिरोन्मत्तचेतनः । अद्वैतमपि द्वैतं भावयत्यविवेकतः ॥६॥ तद्रव्यगुणपर्यायकर्तृकर्मादि भेदतः ।
निर्विकारमयं ब्रह्म चैतन्यं चिति चिन्तयेत् ॥७॥ ३-४=तदी १.८० । ६=प्रसा १.८३, तदी १.८३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68