Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
ज्ञानचन्द्रोदयनाटकम् |
Jain Education International
निहता न पुनर्भवं भवित्री स्फुटमेकान्तनितान्तमोहदृष्टिः । निजचिन्निशिता सितासिधारा
परिपातैरपतत्परोपलब्धेः ॥२४॥ आस्तामस्तसमस्तवस्तुकलितान्तर्जल्पकोलाहल:
क्रीडत्स्वैरतरङ्गितोत्कलिकया क्रीडन्नयं बध्यते । तद्द्रव्यान्तरसङ्क्रमक्रमभुवः संवेदनात् का कथा
तत्तज्जल्पविकल्पजालविकलो बन्धच्छिदा मृश्यताम् || २५ ॥
घटाकाशपटाकाशभेदभिन्नममेदतः ।
विमृश्य वस्तुवस्तुत्वमवलम्बय निश्चयम् ॥२६॥ निर्विकार निजाधीनस्वसंवेद्यं सुखं सुखम् । स्वर्गश्वभ्रादिकं सौख्यं दुःखं वा दुःखमेव तत् ॥२७॥ उन्मूल्या चूलमूलामनुभवनियतद्रोहमोहानुभूर्ति विज्ञायान्तः स्वरूपं प्रविकशदमलज्ञानमज्ञानभिन्नम् । विस्फूर्जदिव्यधामस्नपित परिलसच्चारु चैतन्यपुरीदञ्चच्चन्द्रातपान्तर्गतजगदजगद् भाति सूक्ष्माणुरूपम् ||२८|| विशुद्धमुद्धतैकान्तशुद्धशुद्धोपयोगिनम् ।
निष्काम निर्विरामै कमात्माराममहं भजे ||२९|| स्वपरस्वोररीकार तिरस्कारपरायणः । ध्याता ध्यायति तद्ध्यानध्येय रूपमनेकतः ॥३०॥ उद्भूतध्वान्तविध्वंसिचण्डमार्तण्डमण्डलः । जागर्ति जगदावर्तगर्ते निर्वर्तयन्नयम् ॥३१॥ बिभ्रतरङ्गरङ्गितलसद्विज्ञानदुग्धाम्बुधि-प्रोन्मज्जत्परमात्मदिग्गजघटाघण्टारणत्कारितं । शब्दब्रह्म समुल्लसत्यविकलज्ञानं समुल्लासयत् सान्तर्बाह्यचिदुच्छलच्छविपरत्र हौ कतामानयत् ॥ ३२ ॥ विज्ञानघनमात्मानमन्यशून्यं विचिन्तयेत् ।
श्रीपद्मसुन्दरस्यायमुपदेशो विशेषतः ||३३|| निष्क्रान्ता सामान्यसंविदनुभूतिः ।
इति श्री ज्ञानचन्द्रोदयनाटके परमात्मविवरणे तृतीयोऽङ्कः पूर्णः ॥३॥
For Private & Personal Use Only
१७
www.jainelibrary.org
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68