Book Title: Gyanchandrodayanataka
Author(s): Padmasundar, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वितीयोऽङ्कः अथ जीवो द्विपात्रीभूयावतरति । बन्धः प्रविशति ।
परिच्छेद्यं यद्वा परिणमति विज्ञानजलधिन तज्ज्ञानं तस्य स्फुटमविकलं क्षायिकमतः । विधत्ते कमॆवासहसहजविज्ञानविकलश्चरित्रं तद्वन्ध्यं कृतमिव गजस्नानमभितः ॥१॥
द्रव्यप्रत्ययसन्ततेरवतरन्मोहाज्ञताविभ्रमभ्रान्त्याऽनादिभवोच्छितेरनुसरद्भावानुबन्धोदयः । सम्यग्दृष्टिरसदृशामिव न तद्भावानुवर्ती क्षणं तबन्धोऽपि निरागसामिह कुतः स्यादप्यशुद्धात्मनाम् ॥२॥
अन्तरेण मनसा न विकारस्तं विनाऽवतरति क च बन्धः । स्वानुभूतिरतिरञ्जितवृत्तेनिमस्य निरुणद्धि नवीनम् ॥३॥ अर्हतां ध्वनिरनुदतमेको निस्सरत्यभिनिरीहितवृत्तिः । गर्जनं स्वत इवाणुविशेषादम्बुवर्षणमिवाम्बुधराणाम् ॥४॥ यद्ययं शुभतदुत्तरभावान्नाश्रवत्यनुभवैरनुवेलम् ।
आजवंजवविनाभवनात् तन्मुक्त एतदपि युक्तिवियुक्तम् ।।५।। अथ द्विपात्रोऽप्येकपात्रीभूयाघतरति परमात्मा ।
तत्स्वभाव-परभाव-विभावैरात्मनः स्वजनितैः परिणामैः । मुक्ति-बन्धमनुसृत्य सदाऽयं स्वानुभूतिमभिनन्दति शुद्धः ॥६॥ सेतरेतरविरोधविधानध्वंसि बिस्फुरति निर्व्यवधानम् ।
केवलं कवलिताखिलकालव्याप्तिरूपमनिरूपितरूपम् ॥७॥ २-४=तदी १. ४४-४५ । ५ = तदी १.४६ । ७-८ = तदी १.४७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68